________________
[ पा० ४, सू० ४ ]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
रुपपदयोः सप्तम्येव भवतीति तत्र मुलमाह- शब्दतः परत्वादिति अयमाशय:- परत्वं हि शब्दरूपेषु सूत्रेषु परकालोच्चरितत्त्रमेव, अस्ति च क्षिप्रार्थकशब्दात् परकाले आशंसार्थक शब्दस्य, भविष्यन्तीशब्दात् परकाले च सप्तमीशब्दस्योच्चरितत्वमिति । न चैकयोगे पूर्वत्वपरत्वाभाव इति किञ्चिदाचार्यवचनं प्रमाणम् । एतच "क्षिप्रवचने लुट्” [ ३. ३. ११३. ] इति सूत्रे भाष्येऽप्युक्तम्, तत्र यद्यपि पृथगेव सूत्रम् "आशंसावचने लिङ्" [ ३. ३. १३४. ] इति, तथापि तत्र का व्यवस्थेति शङ्कितम्, 10 एवमेवोत्तरितं च ।। ५. ४. ३. ।।
15
संभावने सिद्धवत् । ५. ४. ४. ।।
त० प्र०- हेतोः शक्तिश्रद्धानं संभावनम्, तस्मिन् विषयेऽसिद्धेsपि वस्तुनि सिद्धवत् प्रत्यया भवन्ति । समये चेत् प्रयत्नोऽभूत्, उदभूवन् विभूतयः । इथे चेन्माधवोऽवर्षीत्, समपत्सत शालयः ॥ जातश्चायं मुखेन्दुश्चेत्, भृकुटिप्रणयी गुनः । गतं च वसुदेवस्य कुलं नामावशेषताम् ॥१४॥
श० म० न्यासानुसन्धानम् - सम्भा० । सम्भावनं व्याचष्टे - हेतोः शक्ति श्रद्धानमिति - कारणे कार्योत्पा20 दनशक्तविश्वास इति भावः, यथा कारणमिदमुपपन्नं तथा विज्ञापन कार्य मप्युपपन्नमेवेति निश्चयनमिति तत्र कारणे सति कार्यं कदाचिन्नापि भवति, यथा तृणादिसमवधानेऽपि चन्द्रकान्तमणिप्रतिबद्धेन वह्निना दाहो न जन्यते किन्तु सर्वदा तन्त्र निश्चितं यद् विरोधिका रणमायाम्यत्येवेति, 25 कारणदर्शने कार्यसिद्धिः सम्भाव्यत एव । तस्मिन् विषये इति सम्भावने विषयभूते सतीत्यर्थः । समये चेत् प्रयत्नोऽभूत् उदभूवन् विभूतयः इति यद्यपि प्रयत्नस्याप्यनिष्पन्नत्वमेवेति कारणसत्ताप्यनिश्चिता तथापि कारणस्यापि कारणे सति कारणस्यापि सम्पन्नत्वं सम्भा 30 व्यते, प्रयत्नकारणभूताया इच्छायाः सत्त्वेन प्रयत्नस्थापि सम्पन्नत्वेन सम्भावना । तथा च विभूत्युद्भवे कारणभूतस्यप्रयत्नस्य विभूत्युद्भावने विश्वास इह प्रयोकुविवक्षित इति । एवम् इषे चेन्माधवोऽवर्षीत् समपत्सत शालयः इति- इषे आश्विने मासि । अत्रापि शालिसम्प35 निहेतुभूताया वृष्टेः सत्त्वे शालिसम्पत्तिनिश्चितेति विवक्षा ।
२४७
जातश्चायं मुखेन्दुश्चेत्, भृकुटिप्रणयी पुनरिति- ध्रुवः कौटिल्येन संचारणशीलोज्यं गोपीसम्बन्धी मुखेन्दुर्जातश्वेत् मुखेन्दो पूर्व सत्त्वेऽपि तत्र बाल्याद् भ्रुकुटि प्रणयित्वं नासीत्, सम्प्रति सति तारुण्ये तद्विषयत्वेनास्य जन्मान्तरसम्पत्तिरिव विवक्षिता, तत्सम्पत्तौ च वसुदेवकुलस्य ना- 40 मशेषताऽपि सम्पन्नैव वसुदेवकुलं हि वासुदेवमात्रायत्तम्, स च तन्मुखेन्दुनिघ्न इति ततोऽस्य विरत्यसम्भवेन, कः कुलं धारयिष्यति तदुचितकृत्यंरिति नाममात्रमेवावशिष्टं मन्तव्यमिति भावः । तथा च सर्वत्रासिद्धेऽपि वस्तुनि कारणसम्पत्त्या सिद्धवत्कृत्यविवक्षिते भूतवत् प्रत्यया उदाहृताः । 45
पाणिनीये च नेदं सूत्रं कृतम्, तत्रेत्थं शङ्कासमाधी भाष्ये [ ३. ३. १३३. ] दृश्येते - " अनिष्पन्ने निष्पन्नशब्द: शिष्योऽनिष्पन्नत्वात् । अनिष्पन्ने निष्पन्नशब्दः शिव्य:- शासितव्यः । किं कारणम् ? अनिष्पन्नत्वात् । देववेद् वृष्टी निष्पन्नाः शालयः । तत्र भवितव्यं सम्पत्स्यन्ते 50 शालय' इति । सिद्धं तु भविष्यत्प्रतिषेधात् । सिद्धमेतत् । कथम् ? भविष्यत्प्रतिषेधात् । यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । कश्चिदाह 'देवद् वृष्टः सम्पत्स्यन्ते शालयः' इति । स उच्यते 'मैवं वोचः, सम्पनाः शालय इत्येवं ब्रूहि " ।
अयमाशय:- लोकस्यायं स्वभाव एव यत् कारणसम्पत्ती कार्य सम्पन्नमेव न च तत्र सन्देहविषयीभूतं भविष्यत्कालप्रयोगं सहते । तथा चं लोकत एवात्र सिद्धवत् प्रयोगः सिद्ध इति नावश्यकता निष्पन्नशब्दोपपत्त्ये वचनस्येति । यदि लोकव्यवहारेणैव शास्त्रीयं प्रयोजनमेवं 60 प्रत्याख्यायेत कृतं शास्त्रेण, अशास्त्रज्ञोऽपि लोको यथारुचि व्यवहृत्य स्वाभिप्रायं प्रकटयत्येव तत्र हि शास्त्रेण साधुत्वान्वाख्यानं क्रियते एवं कर्तव्यमेवं नेति, तदर्थं च वचनस्यावश्यकतेति शङ्कां मनसि संभाव्य समाधानान्तरमाह भाष्यकार:
55
65
" हेतुभूतकालसम्प्रेक्षितत्वाद् वा । हेतुभूतकाल संप्रेक्षितश्वाद् वा पुनः सिद्धमेतत् । हेतुभूतकालं वर्ष, वर्षकाला च क्रिया । यदि तहि निष्पन्नोऽर्थः किं निष्पन्न कार्याणि न क्रियन्ते ? । कानि ? भोजनादीनि । अन्यदिदानीमेतदुच्यते - कि निष्पन्न कार्याणि न क्रियन्त इति । यत् तु 70 तन्निष्पन्नोऽर्थो न निष्पन्न इति स निष्पन्नोऽर्थः । अवश्यं खल्वपि कोgगतेष्वपि शालिष्ववहननादीनि प्रतीक्ष्याणि ।