________________
२३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने पचमोऽध्यायः ।
स्त्रियामित्यस्य निवृत्तिः, नहि क्लीबत्वस्त्रीत्वयोरेकत्र समवस्थानं सम्भवि, 'भावे' इत्यस्य पूर्वमधिकृतत्वेन पूर्वानुसृतस्य भावाकत्ररित्यस्य च निवृत्तिरित्याह- स्त्रियां भावाकरिति च निवृत्तमिति । अत्रेदं विचार्यते-- | 5 " तत् साप्यानाप्यात् कर्मभावे कृत्यक्तखलर्थाश्र्च" [ ३. ३. २१. ] इति सूत्रेणैव लिङ्गत्रयसाधारण्येन भावकर्मणोः तस्य विधानाद् भावे च नपुंसकत्वस्य स्वतः सिद्धत्वेन सामान्यसूत्रेणैव सिद्धे सूत्रमिदं व्यर्थमिति चेत् ? अत्रोच्यते- 'भूते' इत्यधिकृत्य " क्तक्तवतू" [ ५.१. 10 १७४. ] इत्यनेन क्तप्रत्ययविधानात् तस्यैवार्थो हि "तत् साप्यानाप्यात्०” [ ३. ३. २१. ] इत्यनेन भावकर्मणी कथिते, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते । यद्यपि ‘क्लीबे' इत्यस्याभावेऽपि धात्वर्थरूपे भावे कस्यापि लिङ्गस्यासत्त्वेन सामान्ये नपुंसकमिति निय15 मान्नपुंसकत्वं प्राप्तम्, घनाद्यन्तानां भावार्थकत्वेऽपि सा
मान्यविहितत्वेऽपि च पुंस्त्वमनुशासनवशात्, तथापि सामान्यतो भावमात्रे विधाने घनादीनां बाधकत्वमस्य न स्यादिति तदर्थं नपुंसकत्वविशिष्टे भावे विधानमावश्यकम् । किञ्च "तत् साप्या० " इति सूत्रेणाकर्मकेभ्य एव तस्य 20 भावे विधानमनेन च सकर्मकेभ्योऽपीति "गतं तिरचीनमनूरूसारथेः" इत्यादिप्रयोगाः सकर्मकेम्योऽपि विहिताः । तथा चावश्यकमेवास्य पृथग्विधानमिति । "हसे हसने " अतोऽनेन ते "स्ताद्य ० 17 [ ४. ४. ३२. ] इतीटि• हसितमिति, छात्रस्येत्यत्र “कर्तरि " [२. २.८६ ] 25 इति षष्ठी । “नृतैच् नर्तने" अतः के ऐदित्त्वात् "डीयव्यंदितः क्तयोः” [४. ४. ६.१.] इतीटो निषेधे- नृत्तमिति । व्याङ्पूर्वात् "हंग् हरणे" इत्यतः केऽनुस्वारेत्त्वात् “एकस्वरादनुस्वारेतः" [ ४. ४. ५६ ] इतीटो निषेधे - व्याहृतमिति । “गम्लृ गतौ” अतः तेऽनुस्वारे30 स्त्वादिडभावे "यमि" ४. २. ५५. ] इति मलोपे च - गतमिति । पदकृत्यं पृच्छति क्लीब इति किमिति, यत्र धात्वर्थस्य नपुंसकता न विवक्षिता तत्र मा भूदित्याशयेनोत्तरयति - हसः, हासः इति - अत्र क्लीबत्वाभावादस्याप्रवृत्त्या "नवा कण-यम-हस-स्वनः " [ ५. ३. 35 ४८. ] इति वा अलि- हसः, पक्षे "भावाकः" [ ५. ३. १८. ] इति घत्रि - हासः ॥ ५. ३. १२३. ॥
|
[ पा० ३, सू० १२४-१२५.
अनट् । ५. ३. १२४. ।।
त० प्र०- क्लीबे भावेऽर्थे धातोरनट् प्रत्ययो भवति । गमनं भोजनं वचनं हसनं छात्रस्य । टकार उत्तरत्र यर्थः॥१२४॥
40
श० म० न्यासानुसन्धानम् - अनट् । “गम्लृ गतौ” “भुजप् पालनाभ्यवहारयोः” “वचंक् भाषणे” ं “हसे हसने " एम्योऽनटि - गमनं भोजनं वचनं हसनं छात्रस्येति । पूर्वत्रैव "क्लीबे तानट्" इति प्रत्ययद्वये पठितव्ये योगविभाग उत्तरत्रानङ्मात्रस्यानुवृत्त्यर्थः, अन्ययोभयो- 45 रनुवृत्तिः स्यात्, अत एव टित्त्वं कृतम्, नहि नपुंसके टिव
स्य फलं सम्भवि, तत्र ङीप्रत्ययस्याप्राप्तेरित्याह-टकार उत्तरत्र डङ्घर्थ इति, एवं च नपुंसकत्वविशिष्टे भावे प्रत्ययद्वयमिदं विधानसामर्थ्याद् भवति ।।५. ३. १२४.।।
यत्कर्मस्पर्शात् कर्त्राङ्गसुखं ततः 50
। ५. ३. १२५. ॥
त० प्र०- येन कर्मणा संस्पृस्यमानस्य कर्तुरङ्गस्यशरीरस्य सुखमुत्पद्यते ततः कर्मणः पराद् धातोः क्लीबे मावेऽर्थेऽनट् भवति । पूर्वेणैव प्रत्यये सिद्धे नित्यसमासार्थं वचनम् | पयःपानं सुखम् । कर्मेति किम् ? अपादाना- 55 दिस्पर्श मा मृत्- तुलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? शिष्येण गुरोः स्नापनं सुखम्, स्नापयतेर्न गुरुः कर्ता, किं तहि ! कर्म । अङ्गग्रहणं किम् ? पुत्रस्य परिष्वअनं सुखम्, पुत्रस्य स्पर्शान्न शरीरस्य सुखं, कि तहि ! मानसी 60 प्रीतिः, अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् । सुखमिति किम् ? कण्डकानां मर्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तात् तसुः, येन कर्मणा स्पृश्यमानस्य कर्तुरङ्गसुखमुत्पद्यते तस्मिन् कर्मण्यभिधेये सामर्थ्यात् कर्तुः पराद धातोरनट् भवति इत्यपरोऽर्थः 165 राज्ञा भुज्यन्ते राजभोजनाः शालयः, राजाच्छादनाः प्रावारा:, राजपरिधानानि वासांसि ॥ १२५॥
1
श० म० न्यासानुसन्धानम् - यत्कर्म० । यत्कर्मस्पर्शादिति पदं व्याख्याति येन कर्मणा स्पृश्यमानस्येति- कर्मणा कारकेण न तु क्रियया कर्तृपदसान्निध्यात्, 70 कर्तरि शानस्य विधानाच्च । पूर्वसूत्रेणैवात्राप्यर्थेऽनट् स्या