________________
[ पा० २, सू० ८०-८३.]
तत्वात् । कमिरिच्छार्थः, आत्मगुणश्रेच्छा न परस्मिन् कर्मभूते विवक्षितुं शक्येति तस्यापि कर्मण: कर्तृत्वाभाव एवेति तस्मादपि कर्तरि प्रत्ययाप्राप्तिः । एवं नमधात्वर्थस्य
भावस्य कर्तृमात्रनिष्ठतया तस्यापि कर्मकर्तरि प्रत्य - 5 याप्राप्तिः, अत एतेभ्यः कर्मकतर्येव प्रत्यय इति कथनं न विचारकोटिमारोहति ॥ ५. २. ७९. ।।
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
तृषि - धृषि-स्वपो नजिङ । ५.२. ८०. ॥
!
त० प्र० - तृषि - धृषि स्वपिभ्यः शोलादी सत्यर्थे वर्तमानेभ्यो नजिङ् प्रत्ययो भवति । तृष्यतीत्येवंशीलः -- 10 तृष्णक्, तृष्णजौ । धृष्णक्, धृष्णजौ । स्वप्नक्, स्वप्नज || ङकारो गुणप्रतिषेधार्थः । इकार उच्चारणार्थः । षो नेच्छन्त्येके ॥८०॥
श० म० न्यासानुसन्धानम् - तृषि० । “शितृषच् पिपासायाम्" तर्षशील इति नजिङि तस्य ङित्त्वाद् गुणा15 भावे - तृष्णक् इति, “चज: कगम्” [२. १.८६ . ] इति जस्य गत्वे "विरामे वा " [ १.३.५१ ] इति कत्वं विज्ञेयम् । द्विवचने- सूष्णजौ । “त्रिधृषाट् प्रागल्भ्ये" धर्षशील :5:-- धृष्णक, द्विवचने - धृष्णजौ, उभयत्र "रष्वर्णा ० " [ २. ३. ६३ ] इति नस्य णकारः । "त्रिष्वं20 पक् शये" स्वापशील:- स्वप्नक्, स्वप्नजौ । अनुबन्धद्वयस्य सार्थक्यं दर्शयति-ङकारो गुणप्रतिषेधार्थः इतितृषि-वृषोदिषये इदम् । इकार उच्चारणार्थ इतिश्रुतिसुखदोच्चारणार्थः एवं च 'नज्' इत्यवशिष्यते प्रत्ययः । मतान्तरमाह-धृषो नेण्छन्त्येके इति - पाणिनीये "स्वपि25 तृषोर्नजिङ्” [ ३. २. १७३. ] इति सूत्रे धृषो ग्रहणं न दृश्यते, काशिकायां च "धृषश्चेति वक्तव्यम्" इति वार्तिकमेतत्सूत्रे दृश्यते, भाष्यादी. तु नोपलभ्यते ।। ५. २. ८० ]
स्थेश भास- पिस कसो वरः । ५. २. ८१ ॥
30
त० प्र० -- स्थादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो वरः प्रत्ययो भवति । तिष्ठतीत्येवंशीलः-स्थावर:, स्था बरा । ईश्वरः ईश्वरा । कथमीश्वरी ? “अनोरीच्चादेः "
[ ४४२. ] इत्यौणादिके वरटि भवति । भास्वरः, भास्वरा । पेस्वरः, पेस्वरा । विकस्वरः, विकस्वरा । प्रमदे35 रपीति कचित् प्रमाद्यति प्रमद्वर ॥ ८१ ॥
१६१
श० म० --- न्यासानुसन्धानम् - स्थेश० 1 "est गतिनिवृती” तिष्ठतीत्येवंशील इति बरे-स्थावर, स्त्रियां तु "आत्" [ २४. ४८ ] इत्यापि स्थावरा । "ईशिक् ऐश्वर्ये" ईष्टे इत्येवंशीलः - ईश्वर:, स्त्रियामपिईश्वरा । ननु स्त्रियामीश्वरा इति प्रयोगस्तदा 'ईश्वरी' 40 इति प्रयोगः कथमुपपादनीय इति चेत् ? अत्राह कथमीश्वरो ? "अश्नोरीचा देः " [ उ० ४४२. ] इत्यौणादिके वरदि भवतीति- "अशौटि व्याप्ती" अत औणादिके वरटि प्रत्यये आदेरिकारे तस्य च टित्त्वात् "अण०" [ २.४.२०. ] इति ङयाम् 'ईश्वरी' इति 45 भविष्यतीति भावः । “भासि दीप्तौ " भासत इत्येवंशीलःभास्वर:, स्त्रियामापि भास्वरा । "पिसृ गतौ” पेसनशील:- पेस्वरः इति - अत्र नाम्युपान्त्यलक्षणो गुण: 1 "कस गतौ" विकसनशील:--विकस्वर:, स्त्रियामापि - विकस्वरा । मतान्तरमाह--प्रमदेरपि कश्चिदिति, तन्मते- 50 प्रमाद्यति - प्रमद्वरः, अत्र प्रपूर्वो "मदैव् हर्षे" इति धातुः ।। ५.२. ५१ ॥
यायावरः । ५. २. ८२. ॥
त० प्र०—यातेर्धातोः शीलादौ सत्यर्थे वर्तमानाद् यङन्तात् वरः प्रत्ययो निपात्यते । कुटिलं यातीत्येवंशी - 55 लो- यायावरः ॥८२॥
श० म० न्यासानुसन्धानम् - याया० । “यांकू प्रापणे" कुटिलं यातीत्येवंशील इति यङि वरे च-यायावरः । यङि द्वित्वे 'याया' इति ततो वरः ॥ ५. २. ८२. ॥
60
दिद्य द्र-ददृजगज्जुहू - वाक्-प्राट्-धी-श्री-दू-स्रज्वायतस्तु-कटप्र -परिव्राड्-भ्राजादयः क्विपः । ५ १ ८३. ॥
त० प्र० एते शब्दाः विवबन्ताः शीलादौ सत्यर्थे निपात्यन्ते । द्योतते इत्येवंशीलो - विद्युत्, दिद्युतौ, दृणा- 65 तोति दृदत्, दहतौ गच्छतीति--जगत्, जुहोतीति- जुहूः, एषु द्वित्वम्, दृणाति जुहोत्योर्हस्वत्वदीर्घत्वे च । वक्तीतिवाक् । पृच्छतीति-प्राट्, प्राशौ शब्दप्राद्, तत्त्वप्राट् । दधाति ध्यायति वा-धीः श्रयतीति-श्रीः । शतं द्रवतीति-शतद्रूः, स्रवतीति त्रः । जवतीति-जूः । आयतं स्तौतीति- आयत- 70