________________
[ पा० ३, सू० ७६ ]
""
भवतीति, अयमाशय:- कृग्धातुत्,ि तस्मात् फलवत्कर्त्तरि ईगल [ ३. ३. ५. ] इत्यात्मनेपदम्, अफलवति च " शेषात् परस्मै " [ ३.३.१०० ] इति परस्मैपदं सिद्धमेव, तत्रानेनात्मनेपदप्रकृतिकामः परात् कृग आमने5 पदस्य विशिष्य विधानेन फलवत्यपि कर्त्तरि तदेव भवति न परस्मैपदम् । इत्थं च ईह - ईक्षधातू इदित्त्वादात्मनेपदिनौ, ततः परादामः परात् कृगोऽपि भवत्यात्यनेपदम्, उपमानभूताभ्यामीहीक्षिभ्यां तद्दर्शनात् । बिभयांचकार, जागरां चकार' इति फलवत्यपि न भवतीति, अयमाशय:10 बिभेतिर्जागर्तिश्च परस्मैपदिनों, ततश्वात्मनेपदं न दृष्टमिति तत्प्रकृतिकामः परात् कृगोऽपि न भवत्यात्मनेपदं यदि फलवानपि कर्ता भवति । इत्थं च क्रमशो भावाभावावतिदेशस्वभावलब्धौ पार्थक्येन दर्शयित्वा चिचोभयपदिनः परादामः परात् कृगोऽप्युभयपदं भवतीत्याह यत्र तु 15 पूर्वस्मादुभयं तत्र फलवत्यफलदति चोभयं भवति, अयमर्थः - इदं सूत्रं सामान्येनाम् प्रकृतिभूताद् यद् यथा दृष्टं तत् तथैव विधत्त इति नास्ति नियमः, यत उभयपदिनो धातोः फलवति कर्त्तर्यात्मनेपदस्याफलवति परस्मैपदस्य स्वतः सिद्धत्वेनोभयपदि-आम्प्रकृतिवत् ततः परस्य कृगोऽप्यु20 भयपदित्वात् तेन रूपेण [ फलवदफलवत्कर्तृनिमित्तेन ] उभयपदसिद्धेः स्वाभाविकत्वात्, किन्तु फलवानफलवान् वा कर्त्ता भवतु किन्त्वा प्रकृतिभूतधातुवत् आत्मनेपदं फलवत्त्वादिनिरपेक्षं भवतीति विधते परिशेषात् परस्मैपदमपि चेदाम्प्रकृतेर्दृष्टं तर्हि तदव्य फलवत्कर्तृ निरपेक्षं प्रवर्तत 25 इत्युभयमुभयथा भवतीति । क्वेत्याह- बिभरांचक्रे, बिभरां
|
चकार; पाचयांचक्रे, पाचयांचकारेति इह विभर्तेः पचतेश्र्चोभयपदित्वेन तत्प्रकृतिकामः परात् कृगोऽप्युभय भवति फलवदफलवत्कर्तृ निरपेक्षमिति भावः । कृग इति किमितिमामः इत्येतावदेव सूत्रमस्तु तावताप्यामः परात् कृगः 30 प्राग्वदात्मनेपदं सेत्स्यत्येवेति प्रश्नाशयः । तावता सूत्रेणा व्याप्तिर्मा भूदतिव्याप्तिस्तु स्यादित्याह - ईहामास, ईक्षांबभूवेति । अयमाशय: - आम: परोऽनुप्रयुज्यमानः कृगेव यदि स्यात् तदा नासीत् कृगो, ग्रहणस्य प्रयोजनं, किन्तु वातो रनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् 35 [ ३. ४. ४६. ] इत्यादिसूत्रः कृग्वत् स्वस्ती अध्यनुप्रयुज्येते इति तावप्यामः पराविति ताभ्यामप्यात्मनेपदमेव स्यादिष्यते तु परस्मैपदमेवेति ईहामास, ईक्षांबभूवेत्याद्यात्मनेपदिधातुप्रकृतिकामः पराभ्यां स्वस्तिभ्यामात्मनेपदवारणार्थ कृगो ग्रहणमावश्यकमिति ॥। ३. ३. ७५ ॥
श०म० न्यासानुसन्धानम्- गन्धना० । कृग इत्यनुवर्त्तते । गन्धनादयोऽर्थाः क्वचित् साक्षात् कृगो वाच्याः afree प्रयोगोपाधयः एतच्च तत्र तत्रार्थविशेषव्याख्यान काले स्फुटी भविष्यति । सामान्येन सूत्रार्थमाह- गन्धनादिष्वर्थेषु 60 वर्तमानादिति । प्रत्येकमर्थान् व्याख्याति- गन्धनं द्रोहाभिप्रायेण परदोषोद्घाटनमिति - परदोषोद्घाटनं द्विधा संभाव्यते - परस्य सन्मार्गोपदेशाय तदीयदोषानुद्घाट्य तत्परिहारप्रदर्शनाय, तदीयापकाराय च, तह द्वितीयाकोटिग्रहीतुमभिलषितेत्याह- द्रोहाभिप्रायेणेति, परम्य - शत्रोरुदासी - 65 नस्य वा कस्यचिद् द्रोहं कर्तुं दोषाणामुद्घाटनमाविष्करणमित्यर्थः मतान्तरमाह प्रोत्साहनादिकमन्ये इति अत्रापि द्रोहाभिप्रायेणेति योजनीयमेव, अभ्यथाऽत्यन्तभेदापत्तेः । भट्टोजिदीक्षितेन च गन्धनं हिंसेत्युक्तम्, परद्रोहेण हि तदीयदोषसूचने तदीयहसैव फलतीति नाधिको भेदः । तत्र 70 परदोषोद्घाटनं स्वतोऽत्र घात्वर्थः, हिंसा तु विषयविधयेति भेद: । उदाहरति- उत्कुरुते, उदाकुरुते, अध्याकुरुते इति- 'उत्, उत् आङ् अधि आङ् इत्येवमेकोपसर्गाद् द्वय पसर्गाद् वा कृग आत्मनेपदम्, सर्वत्र मामिति कर्म कथयतीत्यर्थः, मां जिघांसुमापकर्त्रे मदीयदोषान् प्रकटयोज्यमेव । प्रयोगत्रयसामान्यमर्थमाह- जिघांसुरपकर्त्रे 75 यतीत्यर्थं इति भावः । द्वितीयमर्थं व्याख्याति - अवक्षेपणम्अवक्षेपः इति- अवपूर्वात् क्षिपेर्भावे घञ् । अर्थमाह
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृत्तीयोऽध्यायः ।
46
२३१
गन्धनाऽवक्षेप सेवा-साहस प्रतियत्र प्रकथनोपयोगे 40
॥ ३ ३ ७६ ॥
त० प्र०- गन्धनादिष्वर्थेषु वर्तमानात् करोदेः कर्तात्मनेपद भवति । गन्धनं द्रोहाभिप्रायेण परदोषोद्घानम्, प्रोत्साहनादिकमन्ये । उत्कुरुते, उदाकुरुते माम्, अव्याकुरुते जिघांसुः, अपकर्त्रे कथयतीत्यर्थः । अवक्षेपणम् - 45 अवक्षेप: कुत्सनं मर्त्सनं वा दुर्वृ सानवकुरुते, कुत्सयतीत्यर्थः; इयेनो वर्तिकामपकुरुते भरसंयतीत्यर्थः । सेवा - अनुवृत्तिः, साहसम् - अविमृश्य महामात्रानुपकुरुते, सेवते इत्यर्थः । प्रवृत्तिः, परदारान् प्रकुरुते विनिपालमविभाव्य तान afoneछतीत्यर्थः । प्रतियत्नः सतो गुणान्तराधानम्, 50 एभोदकस्योपस्कुरुते तत्र गुणान्तरमादधातीत्यर्थः । प्रकथनं - कथनप्रारम्भ: प्रकर्षेण कथनं वा, जनवादान् प्रकुरुते कथयतुमारभते, प्रकर्षेण कथयति वेत्यर्थः । उपयोगो धर्मादी विनियोगः, शतं प्रकुरुते धर्मादौ विनियुङ्क्त इत्यर्थः । एध्विति किम् ? कटं करोति । अफलवत्कर्थ आरम्भ 55
॥ ७६ ॥