________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[पा० ३, सू० २१]
।
निमित्तयोः कर्तृ - कर्मणोरभावात् प्रथममेव त्र्यं भवति, साध्यरूपत्वाच्च संख्या योगो नास्तीति औरसगिक मेकवचनमेव भवति । पाक: पाकt पाकाः, पाको वर्तते, पाकं करोती त्यादौ च नव्ययकृदभिहितो भावो द्रव्यवत् प्रकाशत इति 5 संख्यया लिङ्गेन कारकैश्च युज्यते, त्याविने वाव्ययेनाभिहितस्त्वसत्त्वरूपत्वान्न युज्यते 'उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते' इति तु बहुवचनं कृदभिहितेन भेदोपचारा भवतीति ||२१||
श० म० न्यासानुसन्धानम्- तत् साध्या० । त्यादि10 विभक्तीनां परस्मैपदात्मनेपदाभ्यां विभागं प्रदश्यं तयोः कस्य कुत्रार्थे, कुतः प्रकृतेर्वा विधानमित्यस्यार्थस्य प्रदर्श नार्थमिद प्रकरणमारभ्यते, तत्रात्मनेपदविषये बहुवक्तव्य तया पूर्वं तद्विधायक प्रकरणमेवारभते । ते आदीनामात्मनेपद संज्ञकाना क्तादीनां कृत्प्रत्ययार्थविशेषे शक्तिग्राहकमिदं 15 सूत्रम्, शक्तिश्व बोध्य-वोधक भावापरपर्यायाऽभिधा नाम पदार्थान्तरमिति वैयाकरणसमयः । तदिति पृथक् पदं सर्वनाम आत्मपदपरामर्शकम् सर्वनाम्नामुत्सर्गतः पूर्वप्रधानपरामधित्वात् । आप्यं - कर्मकारकम्, अतिविषयमाप्यम्, आप्तिः सम्बन्धः, स च कर्तृव्यापारद्वार कफलाश्रयत्वरूपः, आध्य20 शब्दस्य तादृशसम्बन्धाश्रये योगरूढिः, आप्येन सह वर्तते इति साप्यम्; बहुव्रीहिसमासे सहशब्दस्य सादेशः, साप्यः सकर्मकः न विद्यते विवक्ष्यते वा आप्यं यस्मिन् सोऽना प्योऽविद्यमानकर्मकोऽविवक्षितकर्मकच साध्यवानाप्यश्र्वानयोः समाहार द्वन्द्वे साप्यानाप्यं तस्मात्- साप्यानाप्यात् । कर्म च 25 भाव वेत्यनयोः समाहारः- कर्मभावं तस्मिन् - कर्मभावे ।
कृत्यश्च क्तश्च खलर्थश्वेत्येतेषामितरेतरयोगद्वन्द्वे - कृत्यक्तखलर्थ:, 'कर्मभावे' इत्यनेन 'साप्यानाप्यात्' इति पदेन चोपस्थितयोरर्थयोर्ययासंख्येनान्वयः । तदाह- साप्यात्सकर्मकाद् धातोः कर्मणि, अनाप्याद अकर्मकादवि 30 वक्षितकर्मका [धातो: ] भावे भवन्ति इति । न च
सहोती -- सह विवक्षायां द्वन्द्वो विधीयते, सह विवक्षा च मिथोविशेष्य-विशेषणभावानापन्नयत्तन्निष्ठविषयतानिरू
पितविषयताश्रयानेकपदसमुदायस्यै धर्मावच्छिन्नेऽन्वयित्व रूपा, प्रकृते च साध्यस्य कर्मणान्वयोज्नाप्यस्य भाव इति स्पष्टं 35 सहोक्त्यभावात् कथं द्वन्द्वस्य साबुत्वम्, अत एव 'अजाविधनौ
देवदत्त - यज्ञदत्ती' इत्युक्तौ न ज्ञायते कस्याजा धनं कस्यावय इति सन्देहः प्रदर्शितः पतञ्जलिना, अजाविधनसमुदायस्य देवदत्त - यज्ञदत्तसमुदायेन सहान्वयात् इति वाच्यम्; व्यास्थानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति
१८१
न्यायेनाचार्य कृतव्याख्यानेन सन्देहस्यापाकरणीयत्वात् । अय- 40 माशय:- - पूर्व कर्म भावममुदायस्य साध्यानाप्यसमुदायेऽन्वयं परिकल्प्य द्वन्द्वसाधुत्वे सति पश्चाद् यथासंख्यन्यायेन सूत्रसार्थक्यार्थं लक्ष्यसंस्कारको वाक्यार्थबोध इति पूर्व साध्यानाप्यात् कर्म-भावे आत्मनेपदमित्येव समस्तवाक्यार्थ बोधः, पश्चादेकत्र कर्म - भावार्थयोः सहावस्थानासंभवाल्लक्ष्यसंस्कारा- 45 । संभावनायां जातायां यथासंख्येन वृत्त्युक्तो वक्यार्थबोध इत्याचार्यव्याख्यानगम्यमिति । सकर्मकत्वं च फलव्यधिकरणव्यापारवाचकत्वम्, फल व्यापारयोर्वेयधिकरण्यं तु फलाश्रयतानियामकसम्बन्धेन बोध्यम्. फलतावच्छेदक [फलाश्रयतानियामक ] सम्बन्धव अभिधानस्वभावाधीनः, अत एव 50 त्यजि- विभज्यो विभागानुकूलव्यापारवाचकत्वेन साम्येऽपि विभागावधिभूत वृक्षादिनिष्ठप्रतियोगित्वविशिष्टसमवायस्त्यज्धातो फलतावच्छेदकः सम्बन्धः कल्पनीयः, तेनैव सम्बन्धेन विभागस्य वृक्षवृत्तित्वात् तदनुकूलव्यापारस्य च पत्रनिष्ठत्वात् फलव्यापारयोर्वेयधिकरण्यमिति त्यज्धातोः सकर्मकत्वं वृक्षं 55 त्यजति पत्रमिति प्रयोगात् विभजतौ तु पत्रादिरूपकर्तृनिष्ठानुयोगित्वविशिष्टसमवायः फलाश्रयता नियामक:, तेन विभागरूपफल - व्यापारयोः कर्तरि सामानाधिकरण्यमिति विभजतेकर्मकत्वम्, फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वमिति लक्षणात् । एकार्यकयोः [ समानार्थकयोः ] कथमेवं 60 भेद इति चेत् ? अनादिपरम्परागताभिधानस्वाभाव्यादेवेति ब्रूमः । तत्र पूर्व साप्यात् कर्मणि आत्मनेपद मुदाहरति-क्रियते कटक्षेत्रेणेति उत्पादना प्रकृते करोतेरर्थः, सा चोत्पत्त्यनुकूलव्यापार एव, उत्पत्तिश्च फलं कर्मस्थम्, तदनुकूलश्च व्यापारः कर्तृ स्थ इति फल व्यापारयोर्वेयधिकरण्याद् 65 भवति करोतेः सकर्मकत्वम्, इति ततः कर्मणि तेप्रत्ययस्य विधानात् कर्मणोऽभिहितत्वेन कटात् प्रथमा विभक्तिः, कर्तुरनभिहितत्वेन च चैत्रात् तृतीया विभक्ति:, इति क्रियते कटर्श्वत्रेणेति भवति । क्रियमाणः इति कर्मणि आनश् वर्त्तमानाविषयः, करिष्यमाणः इत्यत्र च कर्मणि स एव 70 भविष्यन्तीविषयत्वात् सस्यः । चक्राणः इत्यत्र कानः परोक्षाविषयः, परोक्षावद्भावाद् द्वित्वादि कार्यम्, सर्वत्र कटत्रेणेति कर्म-कर्तृबोधकपदे सम्बध्येते, विना ताभ्यां केवलस्यास्य पदस्य प्रयोगानर्हत्वात् कारकं विना क्रियानिष्पत्त्यभावाच्च । कर्मणि आत्मनेपदमुदाहृत्य भावे तदुदाहरति- 75 भावे- इति प्रकृत्य - भूयते भवता इति । अकर्मकाद् धातोर्भावे आत्मनेपदं भवतीत्युक्तम् अकर्मकत्वं च द्वेधा विभक्तं- कमत्यन्ताभाववत्त्वेन अविवक्षितकर्मत्वेन च तत्र कर्मात्यन्ताभाववन्तो भवत्यस्ति विद्यतिप्रभृतयः, एष्वनेकक्षण