SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९८ श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [ पा० १, सू. ११३-११४ ] mere ba कृत्यतुल्याख्यमजात्या । ३ । १ । ११४ ॥ त० प्र० - कृत्यप्रत्ययान्तं तुल्याख्यं च--तुल्यपर्याय नामै कार्थमजात्या - भजातित्राचिना नाम्ना सह समस्यते स च 15 समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । भोज्यं च तदुष्णं च भोज्योष्णम्, एवं भोज्यलवणम्, पानीयशीतम्, पानीयों जलम्, हरणीय पूर्णो घटः, पेयाम्लम् भृत्य भरणीयः, एकोsa कृत्योऽर्द्धार्थेऽपरश्च शक्यार्थे; स्तुत्यपटुः पुरुष; तुल्याख्य-तुल्यश्वेतः, तुल्यसन्, तुल्य महान्, सदृश20 श्वेतः; सदृशमहान् । अजात्येति किम् ? भोज्य मोदनः, तुल्यो वैश्यः सदृशी कन्या वोढच्या । कथं शीतपानीयम् १ पानीयशब्दोऽयमौणादिको जलवाची, तस्यायं विशेषण समासः । जात्या समासस्याजातेः पूर्वत्वस्य च प्रतिषेधार्थं वचनम् ॥ ११४ ॥ समासः, युवतिश्चामौ जरती चेति विग्रहः, युववलिना इति समासः, युवतिश्वासौ वलिना चेति विग्रहः । इह पूर्वोत्तरपदयोरुभयोर्गुणवाचकत्वमिति विशेष्यत्वानियमे यून एव विशेपणत्वविवक्षायां विशेषणसमासेऽपि तस्यैव पूर्वनिपाते सिद्धे 5 सूत्र वैयर्थ्य मारायाह- युवशब्दस्य विशेष्यत्वाद् परनिपाते प्राप्ते, द्वयोर्वा गुणवचनत्वात् खञ्जकुण्टादिवदनियमे पूर्वनिपातार्थे वचनमिति, अयमाशयःविशेष्यविशेषणभावस्य विवक्षाधीनत्वेन यून एक प्राधान्येन विवक्षितत्वाद् विशेष्यत्वम्, अस्तु वोभयोर्गुणवचनत्वेन विशे10 षणत्वानियमः, तथापि तस्यैव पूर्वनिपात इति नियमस्य प्रकृतसूत्रं विनाऽप्राप्तत्वात् तदर्थमेवेदं सूत्रमिति ॥ ३. १. ११३ | ॥ | विगृह्योदाहरति-भोज्यं च तदुष्णं चेति विग्रहः, भोज्योष्णमिति च समासः, भोक्तुं शक्यं भोजनार्ह वोष्णमित्यर्थः, "भुजंप् पालनाभ्यवहारयोः" इत्यतः " ॠवर्ण - 45 व्यञ्जनाद् ध्यण्" [५. १. १७. ] इति ध्यण, उष्णमिति गुणो न जातिरतः समासः, अतिदिशति - एवमिति, भोज्यलवणमिति समासः, भोज्यं च तलवणं चेति विग्रहः, शेषं प्राग्वत् । पानीयशीतमिति समासः पानीयं च तत् शीतं चेति विग्रहः, पानीयोष्णमिति समासः, पानीयं च तद् 50 उष्णं चेति विग्रहः, जलमिति विशेष्यमुभयत्रापि योज्यम्, "पां पाने" अतः “तव्यानीयो " [ ५. १२६ ] इत्यनीयप्रत्यये पानीयमिति, पातुं योग्यं पानार्हं वेति तदर्थः, हरणीयपूर्णः इति समासः, हरणीयश्चासौ पूर्णश्चेति विग्रहः, "हंग् हरणे" इत्यतोऽनीयः, घटः इति विशेष्यम् पूर्ण इति क्रियाशब्दः, हर्तुं 55 शक्यो हरणाहों वा हरणीयः, शेषं प्राग्वत्, पूर्वत्र जलमिति, अत्र घट इति च ' पानीय शब्दस्य 'पूर्ण' शब्दस्य च जातिशब्दाशङ्कां संज्ञाशब्दाशङ्को चापाकरोति- पेयाम्ल मिति समासः, पेयं च तद् अम्लं चेति विग्रहः पातुं शक्यं पानाह वा पेयम्, “पां पाने" इत्यतः "य एबात: " [ ५.१.२८.]60 इति ये एकारे च पेयमिति । भृत्यभरणीयः इति समासः, मृत्यश्वासौ भरणीयश्चेति विग्रहः, "टुडुभृंग् पोषणे च' इत्यतः " मृगोऽसंज्ञायाम्" [ ५. १. ४५ ] इति क्यपि 'भृत्य' इति "तव्यानीयौ ” [ ५. १२७ ] इत्यनीये 'भरणीय' इति तुल्यार्थाविमाविति कथं समास इत्याशङ्कामपाकर्तुमाह - एकोऽत्र 05 कृत्योऽर्हार्थेऽपरश्च शक्यार्थे इति भृत्य इत्यत्राह भरणीय इत्यत्र शक्यार्थे, यद्वा भृत्य इत्यत्र शक्यार्थे भरणीय इत्यत्र चार्थे इति विवक्षा मेदादर्थभेदे द्वयोः प्रयोगो विशेषणविशेष्यभावश्चेति समासः । एवं कृत्यप्रत्ययान्तानां साम्येन पर्यायेणोभयोरपि पूर्वनिपातः सम्भाव्यत एव विवक्षावशादुद्देश्य- 70 विधेयभावव्यत्यास संभवात् स्तुत्यपडुरिति समासः, स्तुत्यश्वासौ पटुचेति विग्रहः, स्तोतुं शक्यः स्तवनार्दो वेत्यर्थः, स्तौतेः " दृ-वृग्-स्तु०” [ ५.१.४० ] इति क्यपि 'स्तुत्य' इति । कृत्यानां शक्यार्थमहर्थित्वं च " शतार्ह कृत्याच” [५. ४. ३५. ] इति ज्ञेयम् । तुल्यपर्यायानुदाहर्तुमवतारयति - 75 तुल्याख्येति, तुल्यश्वेत इति समासः, तुल्यश्वासौ श्वेत । । 25 श० म० न्यासानुसन्धानम् कृत्य ० । 'ध्यण् तव्य अनीय य क्यप्' इति प्रत्ययाः कृत्याः प्रत्ययग्रहणे च तदन्तविज्ञानमित्याह-कृत्यप्रत्ययान्त मिति, तुल्याख्यशब्दं व्याख्याति - तुल्यास्यं च तुल्यपर्यायमिति-तुल्यमर्थमाचष्ट इति तुल्याख्यं “ मूलविभुजादयः " [५.१.१४४ ] इति कः, 30 तुल्यस्याख्याभिधास्यास्तीति वा तुल्याख्यम्, आख्याग्रहणं पर्यायार्थम्, अन्यथास्वं रूपं ० * इति न्यायेन तुल्यशब्द एव विज्ञायेत; यद्यपि कृत्यशब्देन स्वरूपं न गृह्यते, किन्तु तदर्थःकृत्वसंज्ञकाः प्रत्यया इति, तत्साहचर्याच्च तुल्य इत्यर्थस्य ग्रहणं युक्तं, तत्रार्थे कार्यासम्भवात् तद्वाचिनामेव ग्रहणं भविष्यति 35 तथापि यस्य तुल्यता पदार्थस्तस्य तुल्यसदृशादेः शब्दस्य परिग्रहो यथा स्यादित्येवमर्थमाख्या ग्रहणम्, अन्यथेहापि स्यात्अग्निर्माणवकः, गौर्वाहीक इति अत्रापि हि तुल्यता प्रतीयते । विग्रहः, तुल्यसन् इति समासः, तुल्यश्वासौ संश्चेति च परार्थे हि प्रयुज्यमानाः शब्दाः सादृश्यं गमयन्ति, न त्वत्र | विग्रहः, तुल्यमहानिति समासः, तुल्यश्वासौ महांश्चेति तुल्यता पदार्थः पदान्तरसम्बन्धे यत्र तुल्यताप्रतिपत्तिः, अथैवं मन्येत - अन्तरङ्गत्वात् तुल्यतापदार्थप्रतिपत्तिरिति एवं 40 सत्याख्याग्रहणमपाकर्तुं शक्यं, स्पष्टप्रतिपत्तये तत् क्रियत इति विज्ञेयम् ।
SR No.008411
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy