________________
अध्याय
man
श्री गौतमउवाच ऐन्द्राया शक्तयोऽनन्ता । यथार्हन्नाम्न्यकारके ॥ देवेप्यनन्तवीर्यस्या-दैक्याद्वाचकवाच्ययोः ॥ १ ॥ तत्केषांचन भावानां। स्वभावं मेऽर्हति स्थितम्॥ विभावय स्यां येनाहं । भावनात् पावनाशयः ॥ २ ॥
श्री भगवानुवाच अर्हन् अर्कसिद्धरुपोऽर्थ एष । सोऽय॑स्त्वब्जैरर्यमूर्तिमुखेन्हः ॥ तत्संज्ञायामष्टवर्गा ह्यकारे । तेनैवाहन्नीश्वरोप्यष्टमूर्तिः ॥ ३ ॥ श्रीआदिदेवो ह्यरुणोऽर्यमा वा । ह्यहर्पति निमलवृत्तकात्या ॥ अर्हन् सदार्कस्तदकारनाम्ना । प्रकाशकः शाश्वतएष विश्वे ॥ ४ ॥ अर्काभुवि द्वादशलोकसिद्धा-होराश्रयात्तद्विगुणाभवन्ति ॥ अहं चतुर्विंशतिधा तथैवा-ऽकारोपि तद्वाचक एष बोध्यः ॥ ५ ॥ स्युर्टादशाकारभिदोत्रदीर्घ--हस्वप्रपाठात् किलमातृकायाम् ॥ प्लुतस्यशास्त्रेवहूशोऽप्रयोगा-त्सव्यंजनोन्यश्चतथास्त्यकारः ॥ ६ ॥
६४