________________
अध्याय
तेनाकारस्य मुख्यत्वं । यवनाध्ययनेप्यहो ॥ ऋजुःप्रकृतिधवलः । सकृष्णो नैव युज्यते ॥११॥ आकारकेवलात्मास्य।रूपं स्त्रीलिंगसंगजम् ॥ शाब्दिका अपिन प्राहुः। कृष्णमायाऽस्य तत्कुतः ॥१२॥ ज्ञानात्मनाजगद्व्याप्ति-विष्णौ वार्हति चार्हति ॥ नसा मायामयेह्यन्य-माने देवेस्ति तत्वत्ः ॥ १३॥ अइत्यर्हन् आदिदेवो-महावीरो मतिस्मृतः ॥ अंनमः कथनादर्ह-चतुर्विंशतिमानमेत् ॥ १४ ॥ मश्चशंभुरनेकार्थेऽपबर्गान्तप्रतिष्टितः ॥ महाब्रह्मपदेमुर्द्ध-न्यारोहे स्वरसंगतः ॥१५॥ सिद्धस्यार्थोविन्दुरूप-मनाकारात्तदीयभूः ॥ स्थानं सिद्धार्थभूस्तेन । महावीरो जिनःस्मृतः ॥ १६ ॥ सिद्धार्थाद्वाभवत्येष । भासमानेस्वरात्मनि ॥ मकारेणमहावीरो । बाच्यःसिद्धार्थभूरिति ॥१७॥ शिवरूपमनुस्वारे-ऽनाकारायस्तदात्मनः॥ भूःस्थाननेमिनाथोऽर्हन् । ख्यातस्तेनशिवात्मभूः ॥१८॥ नमःप्रसिद्धं यद्विन्दु-रूपं तथा विसर्जनम् ॥ द्वेधाप्रकृत्यास्तदपि । अकारादिस्वराश्रितम् ॥ १९ ॥ सोहं हंस सदा जापो-ऽनाहतो योगिनांमतः॥ तत्राप्यकारवाच्योऽर्हन् । नियमाद् योगसाधने ॥ २० ॥ अकार पृथिवी तत्व-मीषत् प्राग्भारिका स्थितः॥स्वरशास्त्रे खेष्टः सिध्यै-तद्वाच्योऽर्हन् न तत्परः॥२१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेत्रिंशतमोऽध्यायः॥ ३० ॥