________________
अध्याय
श्री गौतमउवाच ऐन्द्रोधर्मःस्मृतंज्ञान-मात्मधर्मस्य निश्चयात् ॥ तदानाऽधर्मवान्कोपि। चैतन्यात्सर्वजन्तुषु ॥ १ ॥
- श्री भगवानुवाच - ज्ञानं द्विधा मयानातं । स्वभावातशुद्धमात्मनः ॥ अशद्धपद्मलोपाधे-राद्यधर्मोऽन्यथापरं ॥ २ ॥ यस्माद्देहे सुखं स्वल्पं । महद्दःखतथात्मनः ॥ तद्ज्ञानंतत्वतोनेष्टं । श्रेष्टं येनात्मनः सुखम् ॥ ३ ॥ विषमिश्रपयःपान-समानस्याँद्भवेसुखम् ॥ पुद्गलानामुपादानात् । प्रत्युतानर्थकारणम् ॥ ४ ॥ अर्थोप्यनर्थहेतुःकिं । नाज्ञानादुद्यमस्पृशाम् ॥ चतुर्णावणिजामत्र । दृष्टांतात्कुमतित्यज ॥ ५ ॥ गव्यंदुग्धमुपादेयं । हेयमर्कस्नुहीभवम् । तथाज्ञानमुपादेय-मेकंहेयंविवेकिना ॥ ६ ॥ येनात्मनःस्यादानन्दः। केवलोमाययाविना ॥ तदवाच्यं सुखंमोक्षं । तत्रभिल्लनिदर्शनम् ॥ ७ ॥ हेयमेवमुपादेय-मादेयमपिहीयते ॥ द्रव्यक्षेत्रकालभावः । स्याद्वादस्यादरस्ततः ॥८॥ ज्ञानंविशिष्टमादेयं । हेयोपादेयगोचरम् ॥ अज्ञानीतद्विनाजंन्तु-लालापानान्नचाम्बुपः ॥९॥ यथैवानुदराकन्या-प्यलोमा ऐडकापूनः ॥ लोमाहारेप्यनशनी। युक्तचेलोप्यकिञ्चनः ॥१०॥