________________
१०८
अनेकान्तजयपताकाख्यं प्रकरणम्
[द्वितीयः
एवं च 'तदेव न भवति' इति वाङ्मात्रमेतत्, शब्दार्थानुपपत्तेश्च । तथाहि-तदेव' इति भवनखभावं परामृश्य 'न भवति' इत्यभिदधतः ५ शब्दार्थविरोधः। यदा न भवति न तदा भवनखभावमिति चेत्,
अभवनखभावं तर्हि न भवतीति तदेवेति न शोभन उपन्यासः । तत् क्षणभवनस्वभावमिति चेत्, कथं द्वितीयक्षणे न भवति? । एकक्षणभवनखभावमिति चेत्, न ह्यसावपि नैकः । तदेकक्षणभवनस्वभावमिति चेत्, नासौ तदतिरेकेण कश्चित् इति
(स्वो० व्या) अभवनस्वभावभवनक्रियाप्रतिषेधे बलाद् भवनापत्तिः। एवं च तदेव न भवतीति वाङ्मात्रमेतत् , उक्तवत् , अभवनायोगात् ; तथा शब्दार्थानुपपत्तेश्च तदेव न भवतीत्यत्र । एनामेव दर्शयति तथाहीत्यादिना । तथाहीति पूर्ववत् । तदेवेति
भवनखभावं परामृश्य वस्तु न भवतीत्यभिदधतः सतः शब्दार्थ१५ विरोधः प्रकट एव । यदान भवति तत् , न तदा भवनस्वभावं सन्न भवति ।
इति-एवं चेन्मन्यसे, एतदाशङ्कयाह-अभवनस्वभावं तर्हि न भवतीतिएवं तदेवेति न शोभन उपन्यासः, तदेवेत्यनेन भवनखभावस्थाभिधानात् । तत्-भवनं क्षणभवनखभावम् । इति चेत्, एतदाशङ्याह-कथं द्वितीयः
क्षणे न भवति? तस्यापि क्षणत्वादित्यभिप्रायः । एकक्षणस्थितिस्वभावमिति २० चेत्, एतदाशयाह-न वसावपि नैकः । किं तर्हि ? । एक एव। तदेकक्षणभवनखभावं तस्मिन्नेवैकस्मिन् क्षणे भवनं स्वभावो यस्य तत् तथा । इति-एवं चेन्मन्यसे, एतदाशङ्कयाह-नासौ-क्षणः तदतिरेकेण-भवनातिरेकेण कश्चित्, तदक्षणिकत्वप्रसङ्गात् । तदैव तदपरक्षणाभावात् , अनवस्थापत्तेरिति भावनीयम् । इति
(विवरणम्) २५ (२३) तदक्षणिकत्वप्रसङ्गादिति । येन क्षणेन-कालेन समयलक्षणेन घटादिरर्थः क्षणिकतया व्यवह्रियते तस्य क्षणस्य अक्षणिकत्वप्रसङ्गात् । कुत इत्याह-(२३) तदैव तदपरक्षणाभावादिति । तदैव-विवक्षितप्रथमक्षणकाले तस्माद् अपरस्य क्षणस्याभावात् येन तदेव क्षणिकः क्रियते । अथ तस्याप्यपरः क्षणोऽभ्युपगम्यते, तर्हि तस्याप्यपरेण क्षणेन भाव्यं तस्यापि चान्येनेत्यनवस्थालता नभोमण्डलमालिनी ३० सर्पति । अत एवाह-(२३) अनवस्थापत्तरिति । व्याख्यातार्थमेव ॥
१ 'तस्य क्षणिक०' इति क-पाठः, 'तस्मात् क्षणाप्त्या क्षणिक.' इति तु ख-पाठः। २ 'क्षणिकः कियते । तदेवापरक्षणस्याभावात् । अथ तस्याप्यपरः' इति च-पाठः ।