________________
७६
एव ।
वस्तून्यनूनमखिलान्ययमेक अस्मिञ्ज्वलद्विमल - केवल - बोधवूहौ, पुण्यं समग्रमहमेकमना जुहोमि ।। ५ ।। ॐ यज्ञविधिप्रतिज्ञायै जिनप्रतिमाग्रे पुष्पाञ्जलिं क्षिपामि । स्वस्ति मंगलपाठ
श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः । श्रीसम्भवः स्वस्ति, स्वस्ति श्रीअभिनन्दनः । श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः । श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः । श्रीपुष्पदन्तः स्वस्ति स्वास्तिश्री शीतलः । श्रीश्रेयांसः स्वस्ति, स्वस्ति श्रीवासुपूज्यः । श्रीविमलः स्वस्ति, स्वस्ति श्री अनन्तः । श्रीधर्मः स्वस्ति, स्वस्ति श्रीशान्तिः । श्री कुन्थुः स्वस्ति, स्वस्ति श्रीअरनाथः । श्रीमल्लिः स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः । श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः । श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः । (पुष्पाञ्जलिं क्षिपेत्)
परमर्षि स्वस्ति मंगलपाठ
(प्रत्येक श्लोक के बाद पुष्प क्षेपण करें) नित्याप्रकम्पाद्भुत-केवलौघाः स्फुरन्मनः पर्यय-शुद्धबोधाः । दिव्यावधिज्ञान- बलप्रबोधाः स्वस्ति क्रियासुः परमर्षयो नः || १ || कोष्ठस्थ - धान्योपममेकबीजं संभिन्न संश्रोतृ-पदानुसारि । चतुर्विधं बुद्धिबलं दधानाः स्वस्ति क्रियासुः परमर्षयो नः ।। २ ।। संस्पर्शनं संश्रवणं च दूरादास्वादन घ्राण- विलोकनानि । दिव्यान्मतिज्ञान-बलाद्वहन्तः स्वस्ति क्रियासुः परमर्षयो नः || ३ ||
जिनेन्द्र अर्चना
39
प्रज्ञाप्रधानाः श्रमणाः समृद्धाः प्रत्येकबुद्धा दशसर्वपूर्वैः । प्रवादिनोऽष्टाङ्गनिमित्तविज्ञाः स्वस्ति क्रियासुः परमर्षयो नः || ४ || जङ्घावलि - श्रेणि- फलाम्बु- तन्तु - प्रसून - बीजांकुर - चारणाह्वाः । नभोऽङ्गणस्वैर- विहारिणश्च स्वस्ति क्रियासुः परमर्षयो नः ।। ५ ।। अणिम्निदक्षाः कुशलामहिम्नि लघिम्निशक्ताः कृतिनो गरिणि । मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति क्रियासुः परमर्षयो नः || ६ || सकामरूपित्व - वशित्वमैश्यं प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः । तथाऽप्रतीघातगुणप्रधानाः स्वस्ति क्रियासुः परमर्षयो नः ।।७।। दीप्तं च तप्तं च तथा महोग्रं घोरं तपो घोरपराक्रमस्थाः । ब्रह्मापरं घोर गुणाश्चरन्तः स्वस्ति क्रियासुः परमर्षयो नः || ८ || आमर्ष - सर्वोषधयस्तथाशीर्विषं विषा दृष्टिविषं विषाश्च । सखिल्ल-विड्जल्ल-मलौषधीशाः स्वस्ति क्रियासुः परमर्षयो नः ।। ९ ।। क्षीरं स्रवन्तोऽत्र घृतं स्रवन्तो मधुस्रवन्तोऽप्यमृतं स्रवन्तः । अक्षीणसंवास- महानसाश्च स्वस्ति क्रियासुः परमर्षयो नः ।। १० ।। (इति परमर्षिस्वस्तिमङ्गलविधानं पुष्पांजलिं क्षिपेत्)
सुनि ठगनी माया, तैं सब जग ठग वाया (राग सोरठ)
सुनि ठगनी माया, तैं सब जग ठग खाया । । टेक || टुक विश्वास किया जिन तेरा, सो मूरख पछताया ।। आपा तनक दिखाय बीज ज्यों, मूढमती ललचाया। करि मद अंध धर्म हर लीनौं, अन्त नरक पहुँचाया ॥१ ॥ सुनि ॥ केते कंत किये तैं कुलटा, तो भी मन न अघाया। किसही सौं नहिं प्रीति निबाही; वह तजि और लुभाया ।। २ । । सुनि. ।। 'भूधर' छलत फिर यह सबकों, भौंदू करि जग पाया। जो इस ठगनी कों ठग बैठे, मैं तिनको सिर नाया ।। ३ । । सुनि ।।
जिनेन्द्र अर्चना
७७