________________
पूजा पीठिका ॐ जय जय जय । नमोऽस्तु नमोऽस्तु नमोऽस्तु । णमो अरहताणं णमो सिद्धाणं णमो आइरियाणं । णमो उवज्झायाणं णमो लोए सव्वसाहूणं ।।
ॐ ह्रीं अनादिमूलमन्त्रेभ्यो नमः पुष्पांजलिं क्षिपामि । चत्तारि मंगलं - अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णतो धम्मो मंगलं । चत्तारि लोगुत्तमा - अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पव्वज्जामि, अरहते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वजामि, केवलिपण्णत्तं धम्म, सरणं पव्वज्जामि । ॐ नमोऽर्हते स्वाहा, पुष्पांजलिं क्षिपामि ।
मंगल विधान अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्पञ्च-नमस्कारं सर्वपापैः प्रमुच्यते ।।१।। अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचिः ।।२।। अपराजित-मन्त्रोऽयं सर्व-विघ्न-विनाशनः । मङ्गलेषु च सर्वेषु प्रथमं मङ्गलं मतः ।।३।। एसो पंच णमोयारो सव्व पावप्पणासणो। मंगलाणं च सव्वेसिं पढम होई मंगलं ।।४।। अर्हमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्वीजं सर्वतः प्रणमाम्यहम् ।।५।।
1000000 जिनेन्द्र अर्चना
कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी निकेतनम् । सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् ।।६।। विघ्नौघाः प्रलयं यान्ति शाकिनी-भूत-पन्नगाः। विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ।।७।।
(पुष्पाञ्जलिं क्षिपेत्)
जिनसहस्रनाम अर्घ्य उदक-चन्दन-तन्दुलपुष्पकैश्चरु-सुदीप-सुधूप-फलायकैः । धवल-मङ्गल-गान-वाकुले जिन-गृहे जिननाथमहं यजे।। ॐ ह्रीं श्री भगवज्जिनसहस्रनामेभ्योऽयं निर्वपामीति स्वाहा।
पूजा प्रतिज्ञा पाठ श्रीमज्जिनेन्द्रमभिवन्द्य जगत्त्रयेशं, स्याद्वाद-नायकमनन्त-चतुष्टयार्हम् । श्रीमूलसंघ-सुदृशां सुकृतैकहेतु जौनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि ।।१।। स्वस्ति त्रिलोक-गुरवे जिन-पुङ्गवाय, स्वस्ति स्वभाव-महिमोदय-सुस्थिताय। स्वस्ति प्रकाश-सहजोर्जि-तदृङ्मयाय, स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय ।।२।। स्वस्त्युच्छलद्विमल-बोधसुधाप्लवाय, स्वस्ति स्वभाव-परभाव-विभासकाय। स्वस्ति त्रिलोकविततैक-चिदुद्गमाय, स्वस्ति त्रिकाल-सकलायत-विस्तृताय॥३॥ द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं, भावस्य शुद्धिमधिकामधिगन्तुकामः। आलम्बनानि विविधान्यवलम्ब्य वल्गन्, भूतार्थ-यज्ञ-पुरुषस्य करोमि यज्ञम् ।।४।।
अर्हन् पुराणपुरुषोत्तम पावनानि, जिनेन्द्र अर्चना/200000
38