________________
शान्तिपाठः (संस्कृत)
२४४
(चौपाई)
शान्तिजिनं शशिनिर्मलवक्त्रं, शील-गुण-व्रत-संयम-पात्रम् । अष्टशतार्चित- लक्षण - गात्रं, नौमि जिनोत्तममम्बुनेत्रम् ।। १ ।। पंचमभीप्सित - चक्रधराणां पूजितमिन्द्र-नरेन्द्र-गणैश्च । शान्तिकरं गण- शान्तिमभीप्सुः, षोडश-तीर्थकरं प्रणमामि ।। २ ।। दिव्य - तरुः सुर- पुष्प - सुवृष्टिर्दुन्दुभिरासन योजन- घोषौ । आतपवारण-चामर-युग्मे, यस्य विभाति च मण्डलतेजः || ३ || तं जगदर्चित - शान्ति - जिनेन्द्रं, शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्तिं मह्यमरं पठते परमां च ॥ ४ ॥ (वसन्ततिलका)
भ्यर्चिता मुकुट-कुण्डल - हार-रत्नैः
शक्रादिभिः सुरगणैः स्तुत-पाद- पद्माः । ते मे जिनाः प्रवर-वंश-जगत्प्रदीपास्तीर्थंकराः सतत- शान्तिकरा भवन्तु ।।५ ।। (इन्द्रवज्रा )
संपूजकानां प्रतिपालकानां यतीन्द्र - सामान्य- तपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवज्जिनेन्द्रः ।। ६ ।। ( शार्दूलविक्रीडित)
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः, काले काले च सम्यग्वर्षतु मघवा व्याधयो यान्तु नाशम् । दुर्भिक्षं चौर-मारी क्षणमपि जगतां मा स्म भूज्जीवलोके, जैनेन्द्रं धर्मचक्रं प्रभवतु सततं, सर्व सौख्य-प्रदायी ।।७।। (अनुष्टुप) प्रध्वस्त- घाति-कर्माणः केवलज्ञान भास्कराः । कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वराः ।। ८ ।। (प्रथमं करणं चरणं द्रव्यं नमः)
जिनेन्द्र अर्चना
123
(मन्दाक्रान्ता)
शास्त्राभ्यासो जिनपति - नुति: संगतिः सर्वदार्यैः, सद्वृत्तानां गुण - गण - कथा दोष-वादे च मौनम् । सर्वस्यापि प्रिय हित वचो भावना चात्मतत्त्वे, संपद्यन्तां मम भव-भवे यावदेतेऽपवर्गः ||९ ।।
(आर्या)
तव पादौ मम हृदये मम हृदयं तवपदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तावद्यावन्निर्वाण - संप्राप्तिः ।। १० ।।
(गाथा)
अक्खर पयत्थ-हीणं, मत्ता हीणं च जं मए भणियं । तं खमउ णाणदेव य, मज्झ वि दुक्ख क्खयं दिंतु ।। ११ ।। दुक्ख खओ कम्म खओ, समाहिमरणं च बोहि-लाहो य । मम होउ जगद-बंधव तव जिणवर चरण सरणेण ।। १२ ।। ( नौ बार णमोकार मंत्र का जाप करें।) (क्षमापना ) (अनुष्टुप) ज्ञानतोऽज्ञानतो वाऽपि शास्त्रोक्तं न कृतं मया । तत्सर्वं पूर्णमेवास्तु तत्प्रसादाज्जिनेश्वर । । १ ॥ आह्वाननं नैव जानामि नैव जानामि पूजनम् । विसर्जनं नैव जानामि क्षमस्व परमेश्वर ।। २ ।। मन्त्र - हीनं क्रिया हीनं द्रव्य हीनं तथैव च । तत्सर्वं क्षम्यतां देव रक्ष रक्ष जिनेश्वर ।। ३ ।। मंगलं भगवान् वीरो मंगलं गौतमो गणी । मंगलं कुन्दकुन्दार्यो, जैन धर्मोऽस्तु मंगलम् ||४ ॥ सर्व मंगल मांगल्यं सर्वकल्याणकारकं । प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ||५ ।।
जिनेन्द्र अर्चना
२४५