________________
Version 001: remember to check http://www.AtmaDharma.com for updates
પાઠ ૧
મહાવીરાષ્ટક સ્તોત્ર
यदीये चैतन्ये मुकुर इव भावाश्चिदचिता: समं भान्ति ध्रोव्यव्ययजनिलसन्तोऽन्तरहिताः। जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो । महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।१।।
अतानं यच्चक्षुः कमलयुगलं स्पन्दरहितम् जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि । स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला महावीरस्वामी नयनपथगामी भवतु मे (न:) ।।२।।
नमन्नाकेन्द्राली मुकुटमणिभाजलटिलं, लसत्पादाम्भोजद्वयमिह यदीयं तनुभृताम् । भवज्वालाशान्त्यै प्रभवति जलं वा स्मृतमपि महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।३।।
यद भावेन प्रमुदितमनादर्दुरइह, क्षणादासीत्स्वर्गी गुणगणसमृद्धः सुखनिधिः। लभन्ते सद्भक्ताः शिवसुख समाजं किमुतदा महावीरस्वामी नयनपथगामी भवतु मे (न:) ।।४।।
Please inform us of any errors on rajesh@ AtmaDharma.com