________________
४९८
ગાથા-૧૮ ૪થી૧૮૫
समयसार सिद्धि-६
कथं भेदविज्ञानादेव शुद्धात्मोपलम्भ इति चेत् -
जह कणयमग्गितवियं पि कणयभावं ण तं परिच्चयदि ।
तह कम्मोदयतविदो ण जहदि णाणी दु णाणित्तं । ।१८४ ।।
एवं जाणदि णाणी अण्णाणी मुणदि अण्णाणतमोच्छण्णो आदसहावं
रागमेवादं । अयाणंतो ||१८५ ।।
यथा कनकमग्नितप्तमपि कनकभावं न तं परित्यजति । तथा कर्मोदयतप्तो न जहाति ज्ञानी तु ज्ञानित्वम् ।।१८४ ।। एवं जानाति ज्ञानी अज्ञानी मनुते रागमेवात्मानम् । अज्ञानतमोऽवच्छशः आत्मस्वभावमजानन् ।।१८५ ।।
यतो यस्यैव यथोदितं भेदविज्ञानमस्ति स एव तत्सद्भावात् ज्ञानी सन्नेवं जानाति - यथा प्रचण्डपावकप्रतप्तमपि सुवर्णं न सुवर्णत्वमपोहति तथा प्रचण्डकर्मविपाकोपष्टब्धमपि ज्ञानं न ज्ञानत्वमपोहति, कारणसहस्त्रेणापि स्वभावस्यापोढुमशक्यत्वात् ; तदपोहे तन्मात्रस्य वस्तुन एवोच्छेदात् ; न चास्ति वस्तूच्छदः, सतो नाशासम्भवात् । एवं जानंश्च कर्माक्रान्तोऽपि न रज्यते, न द्वेष्टि, न मुह्यति, किन्तु शुद्धमात्मानमेवोपलभते। यस्य तु यथोदितं भेदविज्ञानं नास्ति स तदभावादज्ञानी सन्नज्ञानतमसाच्छन्नतया चैतन्यचमत्कारमात्रमात्मस्वभावमजानन् रागमेवात्मानं मन्यमानो रज्यते द्वेष्टि मुह्यति च, न जातु शुद्धमात्मानमुपलभते । ततो भेदविज्ञानादेव शुद्धात्मोपलम्भः ।
હવે પૂછે છે કે ભેદવિજ્ઞાનથી જ શુદ્ધ આત્માની ઉપલબ્ધિ (અનુભવ) કઈ રીતે થાય छे ? तेना उत्त२३५ गाथा उहे छे :
જ્યમ અગ્નિતપ્ત સુવર્ણ પણ નિજ સ્વર્ણભાવ નહીં તજે,
ત્યમ કર્મઉદયે તપ્ત પણ શાની ન જ્ઞાનીપણું તજે. ૧૮૪. જીવ શાની જાણે આમ, પણ અજ્ઞાની રાગ જ જીવ ગણે, આત્મસ્વભાવ-અજાણ જે અજ્ઞાનતમ-આચ્છાદને. ૧૮૫.