________________
२७४
સમયસાર સિદ્ધિ ભાગ-૫
गाथा-११६,११७,११८,११८,१२०
***
F F F ******
अथ पुद्गलद्रव्यस्य परिणामस्वभावत्वं साधयति सांख्यमतानुयायिशिष्यं प्रतिजीवेण सयं बद्धं ण सयं परिणमदि कम्मभावेण । जदि पोग्गलदव्वमिणं अप्परिणामी तदा होदि ।। ११६।। कम्मइयवग्गणासु य अपरिणमंतीसु कम्मभावेण । संसारस्स अभावो पसज्जदे संखसमओ वा।।११७।। जीवो परिणामयदे पोग्गलदव्वाणि कम्मभावेण । ते समयपरिणमंते कहं णु परिणामयदि चेदा । । ११८ । । अह सयमेव हि परिणमदि कम्मभावेण पोग्गलं दव्वं । जीवो परिणामयदे कम्मं कम्मत्तमिदि मिच्छा ।। ११९।। णियमा कम्मपरिणदं कम्मं चिय होदि पोग्गलं दव्वं । तह तं णाणावरणाइपरिणदं मुणसु तच्चेव ।। १२० ।। जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन । यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति कार्मणवर्गणासु चापरिणममानासु कर्मभावेन संसारस्याभावः प्रसजति सांख्यसमयो वा जीव: परिणामयति पुद्गलद्रव्याणि कर्मभावेन तानि स्वयमपरिणाममानानि कथं नु परिणामयति चेतयिता।।११८।। अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलं द्रव्यम् । जीव: परिणामयति कर्म कर्मत्वमिति मिथ्या ।। ११९।। नियमात्कर्मपरिणतं कर्म चैव भवति पुद्गलं द्रव्यम् । तथा तद्ज्ञानावरणादिपरिणतं जानीत तच्चैव ।। १२० ।।
।। ११६।।
1
1
।। ११७।।
तदा
यदि पुद्गलद्रव्यं जीवे स्वयमबद्धं सत्कर्मभावेन स्वयमेव न परिणमेत, तदपरिणाम्येव स्यात् । तथा सति संसाराभावः । अथ जीव: पुद्गलद्रव्यं कर्मभावेन परिणामयति ततो न संसाराभावः इति तर्कः । किं स्वयमपरिणममानं परिणममानं वा जीवः पुद्गलद्रव्यं कर्मभावेन परिणामयेत् ? न तावत्तत्स्वयमपरिणममानं परेण परिणमयितुं