SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ४ પ્રવચનસાર [ भगवान श्रीकुंकुं अथातीन्द्रियत्वादेव शुद्धात्मनः शारीरं सुखदुःखं नास्तीति विभावयतिसोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि देहगदं। जम्हा अदिदियत्तं जादं तम्हा दु तं णेयं ।।२०।। केवलज्ञानिनो नास्ति। कथंभूतम्। देहगदं देहगतं देहाधारजिह्वेन्द्रियादिसमुत्पन्नं कवलाहारादिसुखम्, असातोदयजनितं क्षुधादिदुःखं च। कस्मान्नास्ति। जम्हा अदिदियत्तं जादं यस्मान्मोहादिघातिकाभावे पञ्चेन्द्रियविषयव्यापाररहितत्वं जातम्। तम्हा दु तं णेयं तस्मादतीन्द्रियत्वाद्धेतोरतीन्द्रियमेव तज्ज्ञानं सुखं च ज्ञेयमिति। तद्यथा-लोहपिण्डसंसर्गाभावादग्निर्यथा घनघातपिट्टनं न लभते तथायमात्मापि लोहपिण्डस्थानीयेन्द्रियग्रामाभावात सांसारिकसुखदुःखं नानुभवतीत्यर्थः। कश्चिदाह-केवलिनां भुक्तिरस्ति, औदारिकशरीरसद्भावात्। असद्वेद्यकर्मोदयसद्भावाद्वा। अस्मदादिवत्। परिहारमाहतद्भगवतः शरीरमौदारिकं न भवति किंतु परमौदारिकम्। तथा चोक्तं- 'शुद्धस्फटिकसंकाशं तेजोमूर्तिमयं वपुः। जायते क्षीणदोषस्य सप्तधातुविवर्जितम्''।। यञ्चोक्तमसद्वेद्योदयसद्भावात्तत्र परिहारमाह-यथा व्रीह्यादिबीजं जलसहकारिकारणसहितमङ्कुरादिकार्य जनयति तथैवासद्वेद्यकर्म मोहनीयसहकारिकारणसहितं क्षुधादिकार्यमुत्पादयति। कस्मात्। 'मोहस्स बलेण घाददे जीवं' इति वचनात्। यदि पुनर्मोहाभावेऽपि क्षुधादिपरीषहं जनयति तर्हि वधरोगादिपरीषहमपि जनयतु, न च तथा। तदपि कस्मात्। 'भुक्त्युपसर्गाभावात्' इति वचनात्। अन्यदपि दूषणमस्ति। यदि क्षुधाबाधास्ति तर्हि क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति। तथैव क्षुधादुःखितस्यानन्तसुखमपि नास्ति। जिह्वेन्द्रियपरिच्छित्तिरूपमतिज्ञानपरिणतस्य केवलज्ञानमपि न संभवति। अथवा अन्यदपि कारणमस्ति। असद्वेद्योदयापेक्षया सद्वेद्योदयोऽनन्तगुणोऽस्ति। ततः कारणात् शर्कराराशिमध्ये निम्बकणिकावदसवेद्योदयो विद्यमानोऽपि न ज्ञायते। तथैवान्यदपि बाधकमस्ति-यथा प्रमत्तसंयतादितपोधनानां वेदोदये विद्यमानेऽपि मन्दमोहोदयत्वादखण्डब्रह्मचारिणां स्त्रीपरीषह-बाधा नास्ति, यथैव च नवग्रैवेयकाद्यहमिन्द्रदेवानां वेदोदये विद्यमानेऽपि मन्दमोहो ભાવાર્થ- આત્માને જ્ઞાન અને સુખરૂપે પરિણમવામાં ઇન્દ્રિયાદિ પર નિમિત્તોની જરૂર નથી; કારણ કે સ્વપરનું પ્રકાશકપણું જેનું લક્ષણ અર્થાત્ સ્વરૂપ છે એવું જ્ઞાન અને અનાકુળપણું જેનું લક્ષણ છે એવું સુખ આત્માનો સ્વભાવ જ છે. ૧૯. હવે અતીન્દ્રિયપણાને લીધે જ શુદ્ધ આત્માને (કેવળીભગવાનને) શારીરિક સુખદુ:ખ નથી मेम व्यत २ छ: કંઈ દેહગત નથી સુખ કે નથી દુઃખ કેવળજ્ઞાનીને, જેથી અતીન્દ્રિયતા થઈ તે કારણે એ જાણજે. ૨૦. Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy