________________
Version 001: remember to check http://www.AtmaDharma.com for updates
४४२
પ્રવચનસાર
[ भगवानश्री
स्यात्। असंयतस्य च यथोदितात्मतत्त्वप्रतीतिरूपं श्रद्धानं यथोदितात्मतत्त्वानुभूतिरूपं ज्ञानं वा किं कुर्यात्। ततः संयमशून्यात् श्रद्धानात् ज्ञानाद्वा नास्ति सिद्धिः। अत आगमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानामयोगपद्यस्य मोक्षमार्गत्वं विघटेतैव।। २३७।।
अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां यौगपद्येऽप्यात्मज्ञानस्य मोक्षमार्गसाधकतमत्वं द्योतयति
जं अण्णाणी कम्म खवेदि भवसयसहस्सकोडीहिं। तं णाणी तिहिं गुत्तो खवेदि उस्सासमेत्तेण।। २३८ ।।
यदज्ञानी कर्म क्षपयति भवशतसहस्रकोटिभिः। तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ।। २३८।।
तथायं जीवः श्रद्धानज्ञानसहितोऽपि पौरुषस्थानीयचारित्रबलेन रागादिविकल्परूपादसंयमाद्यदि न निवर्तते तदा तस्य श्रद्धानं ज्ञानं वा किं कुर्यात्, न किमपीति। अतः एतदायातिपरमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां मध्ये द्वयेनैकेन वा निर्वाणं नास्ति, किंतु त्रयेणेति।। २३७।। एवं भेदाभेदरत्नत्रयात्मकमोक्षमार्गस्थापनमुख्यत्वेन द्वितीयस्थले गाथाचतुष्टयं गतम्। किंच बहिरात्मावस्थान्तरात्मावस्थापरमात्मावस्थामोक्षावस्थात्रयं तिष्ठति। अवस्थात्रयेऽनुगताकारं द्रव्यं तिष्ठति। एवं परस्परसापेक्षद्रव्यपर्यायात्मको जीवपदार्थः। तत्र मोक्षकारणं चिन्त्यते। मिथ्यात्वरागादिरूपा बहिरात्मावस्था तावदशुद्धा, मुक्तिकारणं
અને અસંયતને, યથોક્ત આત્મતત્ત્વની પ્રતીતિરૂપ શ્રદ્ધાન કે યથોક્ત આત્મતત્ત્વની અનુભૂતિરૂપ જ્ઞાન શું કરે? માટે સંયમશૂન્ય શ્રદ્ધાનથી કે જ્ઞાનથી સિદ્ધિ થતી નથી.
આથી આગમજ્ઞાન-તત્ત્વાર્થશ્રદ્ધાન-સંયતત્વના અયુગપદપણાને મોક્ષમાર્ગપણું ઘટતું નથી જ. २३७.
હવે, આગમજ્ઞાન-તત્ત્વાર્થશ્રદ્ધાન-સંયતત્વનું યુગપદપણું હોવા છતાં પણ, આત્મજ્ઞાન મોક્ષમાર્ગનું સાધકતમ (ઉત્કૃષ્ટ સાધક) છે એમ સમજાવે છે:
અજ્ઞાની જે કર્મો ખપાવે લક્ષ કોટિ ભવો વડે, તે કર્મ જ્ઞાની ત્રિગુણ બસ ઉચ્છવાસમાત્રથી ક્ષય કરે. ૨૩૮.
अन्वयार्थ:- [ यत् कर्म] ४ भ[अज्ञानी] भनी [भवशतसहस्रकोटिभिः] १६ मोटि भयो 43 [क्षपयति] ५५॥ छ, [ तत्] 1 3 [ज्ञानी] सनी [त्रिभिः गुप्तः] ९ २. ( मनवयन-याथी) गुप्त होवाने दीधे [उच्छासमात्रेण ] ७२७वासमात्रथा [क्षपयति] ५५वे छे.
Please inform us of any errors on rajesh@AtmaDharma.com