SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates પ્રવચનસાર [ भगवान श्रीकुंकुं: अथात्मनश्चारित्रत्वं निश्चिनोति परिणमदि जेण दव्वं तत्कालं तम्मयं ति पण्णत्तं। तम्हा धम्मपरिणदो आदा धम्मो मुणेयव्यो।।८।। परिणमति येन द्रव्यं तत्कालं तन्मयमिति प्रज्ञप्तम्। तस्माद्धर्मपरिणत आत्मा धर्मो मन्तव्यः।।८।। अप्पणो हु मोहक्षोभविहीन: परिणामः। कस्य। आत्मनः। हु स्फुटमिति। तथाहि-शुद्धचित्स्वरूपे चरणं चारित्रं, तदेव चारित्रं मिथ्यात्वरागादिसंसरणरूपे भावसंसारे पतन्तं प्राणिनमुद्धृत्य निर्विकारशुद्धचैतन्ये धरतीति धर्मः। स एव धर्मः स्वात्मभावनोत्थसुखामृतशीतजलेन कामक्रोधादिरूपाग्निजनितस्य संसारदुःखदाहस्योपशमकत्वात् शम इति। ततश्च शुद्धात्मश्रद्धानरूपसम्यक्त्वस्य विनाशको दर्शनमोहाभिधानो मोह इत्युच्यते। निर्विकारनिश्चलचित्तवृत्तिरूप-चारित्रस्य विनाशकश्चारित्रमोहाभिधानः क्षोभ इत्युच्यते। तयोर्विध्वंसकत्वात्स एव शमो मोहक्षोभविहीन: शुद्धात्मपरिणामो भण्यत इत्यभिप्रायः।। ७।। अथाभेदनयेन धर्मपरिणत आत्मैव धर्मो भवतीत्यावेदयति-परिणमदि जेण दव्वं तक्काले तम्मयं ति पण्णत्तं परिणमति येन पर्यायेण द्रव्यं कर्तृ तत्काले तन्मयं भवतीति प्रज्ञप्तम् यत: कारणात्, तम्हा धम्मपरिणदो आदा धम्मो मुणेदव्वो ततः कारणात् धर्मेण परिणत आत्मैव धर्मो मन्तव्य इति। तद्यथा-निजशुद्धात्म-परिणतिरूपो निश्चयधर्मो भवति। पञ्चपरमेष्ठ्यादिभक्तिपरिणामरूपो व्यवहारधर्मस्तावदुच्यते। यतस्तेन तेन विवक्षिताविवक्षितपर्यायेण परिणतं द्रव्यं तन्मयं भवति, ततः पूर्वोक्तधर्मद्वयेन परिणतस्तप्तायःपिण्डवदभेदनयेनात्मैव धर्मो भवतीति ज्ञातव्यम्। तदपि कस्मात, उपादानकारणसदृशं हि कार्यमिति वचनात्। तच्च पुनरुपादानकारणं शुद्धाशुद्धभेदेन द्विधा। रागादिविकल्परहितस्वसंवेदनज्ञानमागमभाषया शुक्लध्यानं वा केवलज्ञानोत्पत्तौ शुद्धोपादानकारणं भवति। अशुद्धात्मा तु रागादीनामशुद्धनिश्चयेनाशुद्धोपादानकारणं भवतीति सूत्रार्थः। एवं चारित्रस्य संक्षेप હવે આત્માનું ચારિત્રપણું ( અર્થાત્ આત્મા જ ચારિત્ર છે એમ) નક્કી કરે છે: જે ભાવમાં પ્રણમે દરવ, તે કાળ તન્મય તે કહ્યું જીવદ્રવ્ય તેથી ધર્મમાં પ્રણમેલ ધર્મ જ જાણવું. ૮. अन्वयार्थ:- [द्रव्यं] द्रव्य ४ णे [येन] ४ मा१३५ [ परिणमति] ५२५ मे छ [ तत्कालं] ते णे [ तन्मयं] त-भय छ [इति] मेम [प्रज्ञप्तं] (४नेंद्र ) इयुं छ; [ तस्मात् ] तेथी [धर्मपरिणतः आत्मा ] धर्मपरित मात्मा [धर्म: मन्तव्यः ] धर्म यो. Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy