________________
Version 001: remember to check http://www.AtmaDharma.com for updates
ઉપર
પ્રવચનસાર
[ भगवान श्रीकुंकुं
न त्यजति यस्तु ममतामहं ममेदमिति देहद्रविणेषु।
स श्रामण्यं त्यक्त्वा प्रतिपन्नो भवत्युन्मार्गम्।।१९०।। यो हि नाम शुद्धद्रव्यनिरूपणात्मकनिश्चयनयनिरपेक्षोऽशुद्धद्रव्यनिरूपणात्मकव्यवहारनयोपजनितमोह: सन अहमिदं ममेदमित्यात्मात्मीयत्वेन देहद्रविणादौ परद्रव्ये ममत्वं न जहाति स खलु शुद्धात्मपरिणतिरूपं श्रामण्याख्यं मागं दूरादपहायाशुद्धात्मपरिणतिरूपमुन्मार्गमेव प्रतिपद्यते। अतोऽवधार्यते अशुद्धनयादशुद्धात्मलाभ एव।। १९०।।
करोति भुङ्क्ते चेत्यशुद्धद्रव्यनिरूपणात्मकासद्भूतव्यवहारनयो भण्यते। इदं नयद्वयं तावदस्ति। किंत्वत्र निश्चयनय उपादेयः, न चासद्भूतव्यवहारः। ननु रागादीनात्मा करोति भुङ्क्ते चेत्येवं-लक्षणो निश्चयनयो व्याख्यातः स कथमुपादेयो भवति। परिहारमाह-रागादीनेवात्मा करोति, न च द्रव्यकर्म, रागादय एव बन्धकारणमिति यदा जानाति जीवस्तदा रागद्वेषादि-विकल्पजालत्यागेन रागादिविनाशार्थं निजशुद्धात्मानं भावयति। ततश्च रागादिविनाशो भवति। रागादिविनाशे चात्मा शुद्धो भवति। ततः परंपरया शुद्धात्मसाधकत्वादयमशुद्धनयोऽप्युपचारेण शुद्धनयो भण्यते, निश्चयनयो भण्यते, तथैवोपादेयो भण्यते इत्यभिप्रायः।। १८९।। एवमात्मा स्वपरिणामानामेव कर्ता, न च द्रव्यकर्मणामिति कथनमुख्यतया गाथासप्तकेन षष्ठस्थलं गतम्। इति ‘अरसमरूवं' इत्यादिगाथात्रयेण पूर्वं शुद्धात्मव्याख्याने कृते सति शिष्येण यदुक्तम-मूर्तस्यात्मनो मूर्तकर्मणा सह कथं बन्धो भवतीति तत्परिहारार्थ नयविभागेन बन्धसमर्थनमुख्यतयैकोनविंशतिगाथाभिः स्थलषट्केन तृतीयविशेषान्तराधिकारः समाप्तः। अतः परं द्वादशगाथापर्यन्तं चतुर्भिः स्थलै: शुद्धात्मानुभूतिलक्षणाविशेषभेदभावनारूपचूलिकाव्याख्यानं करोति। तत्र
अन्वयार्थ:- [ यः तु] ४ [ देहद्रविणेषु] हेह-घनमिi [अहं मम इदम् ] 'हुँ २॥ छु भने २॥ मारे छ' [इति ममतां] मेवी ममता [न त्यजति] छोऽतो नथी, [ सः] ते [श्रामण्यं त्यक्त्वा ] श्रामध्यने छोरीने [ उन्मार्गम् प्रतिपन्नः भवति ] उन्मानो माश्रय ७२ जे.
ટીકા:- જે આત્મા શુદ્ધદ્રવ્યના નિરૂપણસ્વરૂપ 'નિશ્ચયનયથી નિરપેક્ષ રહીને અશુદ્ધ-દ્રવ્યના નિરૂપણસ્વરૂપ વ્યવહારનયથી જેને મોહ ઊપજ્યો છે એવો વર્તતો થકો “હું આ છું અને આ મારું છે.' એમ 'આત્મીયપણે દેહ-ધનાદિક પરદ્રવ્યમાં મમત્વ છોડતો નથી, તે આત્મા ખરેખર શુદ્ધાત્મપરિણતિરૂપ જે શ્રાપ્ય નામનો માર્ગ તેને દૂરથી છોડીને અશુદ્ધાત્મપરિણતિરૂપ ઉન્માર્ગનો જ આશ્રય કરે છે. આથી નક્કી થાય છે કે અશુદ્ધનયથી અશુદ્ધ આત્માની પ્રાપ્તિ જ થાય છે. ૧૯O.
૧. નિશ્ચયનયથી નિરપેક્ષ = નિશ્ચયનય પ્રત્યે ઉપેક્ષાવાળો; નિશ્ચયનય પ્રત્યે બેદરકાર; નિશ્ચયનયને નહિ
गतो.
૨. આત્મીયપણે = પોતાપણે [ અજ્ઞાની જીવ દેહ, ધન વગેરે પરદ્રવ્યને પોતાનું માનીને તેમાં મમત્વ કરે છે. ]
Please inform us of any errors on rajesh@AtmaDharma.com