________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૧૬૬
[ भगवानश्री ६६
त्वानुभूतिः गुणात्मकः स्वभावपर्यायः । यथैव च पटे रूपादीनां स्वपरप्रत्ययप्रवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभावविशेषानेकत्वापत्तिर्गुणात्मको विभावपर्याय:, तथैव च समस्तेष्वपि द्रव्येषु रूपादीनां ज्ञानादीनां वा स्वपरप्रत्ययप्रवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभावविशेषानेकत्वापत्तिर्गुणात्मको विभावपर्याय: । इयं हि सर्वपदार्थानां द्रव्यगुणपर्यायस्वभावप्रकाशिका पारमेश्वरी व्यवस्था साधीयसी, न पुनरितरा। यतो हि बहवोऽपि
પ્રવચનસાર
विणिच्छयाधिगमं परमार्थविनिश्चयाधिगमं सम्यक्त्वमिति । परमार्थविनिश्चयाधिगमशब्देन सम्यक्त्वं कथं भण्यत इति चेत्-परमोऽर्थः परमार्थः शुद्धबुद्धैकस्वभावः परमात्मा, परमार्थस्य विशेषेण संशयादिरहितत्वेन निश्चयः परमार्थविनिश्चयरूपोऽधिगमः शङ्काद्यष्टदोषरहितश्च यः परमार्थतोऽर्थावबोधो यस्मात्सम्यक्त्वात्तत् परमार्थविनिश्चयाधिगमम्। अथवा परमार्थविनिश्चयोऽनेकान्तात्मकपदार्थसमूहस्तस्याधिगमो यस्मादिति ।। * १० ।। अथ पदार्थस्य द्रव्यगुणपर्यायस्वरूपं निरूपयतिअत्थो खलु दव्वमओ अर्थो ज्ञानविषयभूतः पदार्थः खलु स्फुटं द्रव्यमयो भवति । कस्मात्। तिर्यक्सामान्योर्द्धतासामान्यलक्षणेन द्रव्येण निष्पन्नत्वात्। तिर्यक्सामान्योर्द्धता - सामान्यलक्षणं कथ्यतेएककाले नानाव्यक्तिगतोऽन्वयस्तिर्यक्सामान्यं भण्यते । तत्र दृष्टान्तो यथा - नानासिद्धजीवेषु सिद्धोऽयं सिद्धोऽयमित्यनुगताकारः सिद्धजातिप्रत्ययः । नानाकालेष्वेक - व्यक्तिगतोन्वय ऊर्ध्वतासामान्यं भण्यते। तत्र दृष्टान्तः यथा—य एव केवलज्ञानोत्पत्तिक्षणे मुक्तात्मा द्वितीयादिक्षणेष्वपि स एवेति प्रतीतिः । अथवा नानागोशरीरेषु गौरयं गौरयमिति गोजातिप्रतीतिस्तिर्यक्सामान्यम् । यथैव चैकस्मिन् पुरुषे बालकुमाराद्यवस्थासु स एवायं देवदत्त इति प्रत्यय ऊर्ध्वतासामान्यम् । दव्वाणि गुणप्पगाणि भणिदाणि द्रव्याणि गुणात्मकानि भणितानि । अन्वयिनो गुणा अथवा सहभूवो गुणा इति गुणलक्षणम्। यथा अनन्तज्ञानसुखादि - विशेषगुणेभ्यस्तथैवागुरुलघुकादिसामान्यगुणेभ्यश्चाभिन्नत्वाद्गुणात्मकं भवति सिद्धजीवद्रव्यं, तथैव स्वकीयस्वकीयविशेषसामान्यगुणेभ्यः सकाशादभिन्नत्वात् सर्वद्रव्याणि गुणात्मकानि भवन्ति। तेहिं पुणो पज्जाया तैः पूर्वोक्तलक्षणैर्द्रव्यैर्गुणैश्च पर्याया भवन्ति । व्यतिरेकिणः पर्याया अथवा क्रमभुवः पर्याया इति पर्यायलक्षणम्। यथैकस्मिन् मुक्तात्मद्रव्ये किंचिदूनचरमशरीराकार-गतिमार्गणाविलक्षणः
સ્વભાવપર્યાય છે; અને જેમ પટમાં, રૂપાદિકને સ્વ-૫૨ના કારણે પ્રવર્તતી પૂર્વોત્તર અવસ્થામાં થતા તારતમ્યને લીધે જોવામાં આવતા સ્વભાવવિશેષોરૂપ અનેકપણાની આપત્તિ તે ગુણાત્મક વિભાવપર્યાય છે, તેમ સમસ્ત દ્રવ્યોમાં, રૂપાદિકને કે જ્ઞાનાદિકને સ્વ-૫૨ના કા૨ણે પ્રવર્તતી પૂર્વોત્તર અવસ્થામાં થતા તારતમ્યને લીધે જોવામાં આવતા સ્વભાવવિશેષોરૂપ અનેકપણાની આપત્તિ તે ગુણાત્મક વિભાવપર્યાય
छे.
ખરેખર આ, સર્વ પદાર્થોના દ્રવ્યગુણપર્યાયસ્વભાવની પ્રકાશક પારમેશ્વરી (-૫૨મેશ્વરે કહેલી ) વ્યવસ્થા ભલી-ઉત્તમ-પૂર્ણ-યોગ્ય છે, બીજી કોઈ નહિ; કારણ કે ઘણાય
Please inform us of any errors on rajesh@AtmaDharma.com