SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૧૩૬ પ્રવચનસાર [ भगवान श्रीकुंकुंद उभयोरपि निश्चयेनाविशेषात्। अर्हतोऽपि पाककाष्ठागतकार्तस्वरस्येव परिस्पष्टमात्मरूपं ततस्तत्परिच्छेदे सर्वात्मपरिच्छेदः। तत्रान्वयो द्रव्यं, अन्वयविशेषणं गुणः, अन्वयव्यतिरेकाः पर्यायाः। तत्र भगवत्यर्हति सर्वतो विशुद्धे त्रिभूमिकमपि स्वमनसा समयमुत्पश्यति। सिद्धस्वरूपं न लभते तमेव कथयति तवसंजमप्पसिद्धो सुद्धो सग्गापवग्गमग्गकरो। अमरासुरिंदमहिदो देवो सो लोयसिहरत्थो।।५।। तवसंजमप्पसिद्धो समस्तरागादिपरभावेच्छात्यागेन स्वस्वरूपे प्रतपनं विजयनं तप, बहिरङ्गेन्द्रियप्राणसंयमबलेन स्वशुद्धात्मनि संयमनात्समरसीभावेन परिणमनं संयमः, ताभ्यां प्रसिद्धो जात उत्पन्नस्तपःसंयमप्रसिद्धः, सुद्धो क्षुधाद्यष्टादशदोषरहितः, सग्गापवग्गमग्गकरो स्वर्गः प्रसिद्धः केवलज्ञानाद्यनन्तचतुष्टयलक्षणोऽपवर्गो मोक्षस्तयोर्मार्गं करोत्युपदिशति स्वर्गापवर्गमार्गकरः, अमरासुरिंदमहिदो तत्पदाभिलाषिभिरमरासुरेन्द्रैर्महितः पूजितोऽमरा-सुरेन्द्रमहितः, देवो सो स एवंगुणविशिष्टोऽर्हन् देवो भवति। लोयसिहरत्थो स एव भगवान् लोकाग्रशिखरस्थ: सन् सिद्धो भवतीति जिनसिद्धस्वरूपं ज्ञातव्यम्।। *५।। अथ तमित्थंभूतं निर्दोषिपरमात्मानं ये श्रद्दधति मन्यन्ते तेऽक्षयसुखं लभन्त इति प्रज्ञापयति तं देवदेवदेवं जदिवरवसहं गुरुं तिलोयस्स। पणमंति जे मणुस्सा ते सोक्खं अक्खयं जंति।।६।। तं देवदेवदेवं देवदेवाः सौधर्मेन्द्रप्रभृतयस्तेषां देव आराध्यो देवदेवदेवस्तं देवदेवदेवं, जदिवरवसहं जितेन्द्रियत्वेन निजशुद्धात्मनि यत्नपरास्ते यतयस्तेषां वरा गणधरदेवादयस्तेभ्योऽपि वृषभः प्रधानो यतिवरवृषभस्तं यतिवरवृषभं, गुरुं तिलोयस्स अनन्तज्ञानादिगुरुणैस्त्रैलोक्यस्यापि गुरुस्तं त्रिलोकगुरुं, पणमंति जे मणुस्सा तमित्थंभूतं भगवन्तं ये मनुष्यादयो द्रव्यभावनमस्काराभ्यां प्रणमन्त्याराधयन्ति ते सोक्खं अक्खयं जंति ते तदाराधनाफलेन परंपरयाऽक्षयानन्तसौख्यं यान्ति लभन्त इति सूत्रार्थः।। *६।। अथ 'चत्ता पावारंभं' इत्यादिसूत्रेण यदुक्तं शुद्धोपयोगाभावे मोहादिविनाशो न भवति, ખરેખર આત્માને જાણે છે, કારણ કે બન્નેમાં નિશ્ચયથી તફાવત નથી; વળી અહંતનું સ્વરૂપ, છેલ્લા તાપને પામેલા સુવર્ણના સ્વરૂપની માફક, પરિસ્પષ્ટ (-સર્વ પ્રકારે સ્પષ્ટ) છે; તેથી તેનું જ્ઞાન થતાં સર્વ આત્માનું જ્ઞાન થાય છે. ત્યાં અન્વય તે દ્રવ્ય છે, અન્વયનું વિશેષણ તે ગુણ છે, અન્વયના વ્યતિરેકો (–ભેદો) તે પર્યાયો છે. સર્વતઃ વિશુદ્ધ એવા તે ભગવાન અહંતમાં (–અર્વતના સ્વરૂપનો ખ્યાલ કરતાં) જીવ ત્રણે પ્રકારમય સમયને (-દ્રવ્યગુણપર્યાયમય નિજ આત્માને) પોતાના મન વડે કળી લે Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy