________________
Version 001: remember to check http://www.AtmaDharma.com for updates ८८ ]
[ प्रवयन २॥४२ (म-८ बंधकारणभूता या क्रिया रागादिपरिणतिः तद्रूपो न भवति, मोक्षकारणभूता च क्रिया शुद्धभावनापरिणतिस्तद्रूपश्च न भवति। ततो ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानरूपो न भवति। कस्मात् ? ध्यानस्य विनश्वरत्वात्। तथा योगीन्द्रदेवैप्युक्तंणवि उपज्जइ णवि मरइ बंध ण मोक्खु करेइ। जिउ परमत्थे जोइया जिणवर एउ भणेइ।
किंच विवक्षितैकदेशशुद्धनयाश्रितेयं भावना निर्विकारस्वसंवेदनलक्षणक्षायोपशमिकन्यत्वेन यद्यप्येकदेशव्यक्तिरूपा भवति तथापि ध्यातापुरुष: यदेव सकल निरावरणमखंडैकप्रत्यक्षप्रतिभासमयमविनश्वरं शुद्धपारिणामिकपरमभावलक्षणं निजपरमात्मद्रव्यं तदेवाहमिति भावयति, न च खंडज्ञानरूपमिति भावार्थः।
इदं तु व्याख्यानं परस्पसापेक्षागमाध्यात्मनयद्याभिप्रायस्यानिरोधेनैव कथितं सिद्ध्यतीति ज्ञातव्यं विवेकिभिः।। ३२०।।
Please inform us of any errors on Rajesh@AtmaDharma.com