________________
Version 001: remember to check http://www.AtmaDharma.com for updates
भूज गाथा:
શ્રી સમયસાર ગાથા-૩૨૦
[ શ્રી જયસેનાચાર્ય કૃત તાત્પર્યવૃત્તિ ટીકા ]
66
'दिट्ठी सयं पि णाणं अकारयं तह अवेदयं चेव ।
99
जाणदि य वंधमोक्खं कम्मुदयं णिज्जरं चेव ।।
तात्पर्यवृत्ति:
तमेव अकर्तृत्वमोक्तृत्वभावं विशेषेण समर्थयतिः
दिट्ठी सयं पि णाणं अकारयं तह अवेदयं चेव यथा दृष्टि: कर्त्री दृश्यमग्निरूपं वस्तुसंघुक्षणं पुरुषवन्न करोति तथैव च तप्ताय: पिंडवदनुभवरूपेण न वेदयति। तथा शुद्धज्ञानमप्यभेदेन शुद्धज्ञानपरिणत जीवो वा स्वय शुद्धोपादान रूपेण न करोति न च वेदयति। अथवा पाठांतरं दिट्ठी खयंपि णाणं तस्य व्याख्यानं न केवलं दृष्टि: क्षायिकज्ञानमपि निश्चयेन कर्मणामकारकं तथैवावेदकमपि। तथाभूतः सन् किं करोति ? जाणदि य बंधमोक्खं जानाति च । कौ ? बंधमोक्षौ कम्मुदयं णिज्जरं चेव शुभाशुभरूपं कर्मोदयं सविपाकाविपाकरूपेण सकामाकामरूपेण वा द्विधा निर्जरां चैव जानाति इति ।
एवं सर्वशुद्धपारिणामिकपरमभावग्राहकेण शुद्धोपादानभूतेन शुद्ध-द्रव्यार्थिकनयेन कर्तृत्व-मोक्तृत्व-बंध-मोक्षादिकारणपरिणामशुन्यो जीव इति सूचितं। समुदायपातनिकायां पश्चाद्गाथाचतुष्टयेन जीवस्याकर्तृत्त्वगुणव्याख्यान-मुख्यत्वेन सामान्यविवरणं कृतं। पुनरपि गाथाचतुष्टयेन शुद्धस्यापि यत्प्रकृतिभिर्बंधो भवति तद्ज्ञानस्य माहात्म्यमित्यज्ञानसामर्थ्यकथनरूपेण विशेषविवरणं कृतं। पुनश्च गाथाचतृष्टयेन जीवस्याभोक्तृत्वगुणव्याख्यानमुख्यत्वेन व्याख्यानं कृतं तदनन्तरं शुद्धनिश्चयेन तस्यैव कर्तृत्वबंधमोक्षादिककारणपरिणामवर्जन
·
* दिट्ठी सयं पि णाणं' ने पहले आत्मज्याति-टीझमां ' दिट्ठी जहेव णाणं' खेवो पाठ छे.
Please inform us of any errors on rajesh@AtmaDharma.com