________________
:28: Jinabhadra Gani's
[The first 22. Anta evārabho yadi drisyate tasminneva ko dosah ?
Akritam vā samprati gate katham kriyatām katham vais yati ? 22 (2317)]
Trans. 22. If a kārya started at the end, appears at that time only what objection (is there)? ( For ) otherwise ( va) how could (that which ) is not produced at the present time, possibly have been produced in the past or in future ? 2317
टीका-२२. अन्त एव क्रियाक्षणे प्रारब्धो घटो यदि तत्रेव दृश्यते तर्हि को दोषः १-न कश्चिदित्यर्थः । यदुक्तम्-तो न हि किरियाकाले " इत्यादि । तत्राह-'अकयं वेत्यादि । यदि च संपति वर्तमानक्रियाक्षणे न कृतं कार्यमितीप्यने तदा गतेतिक्रान्ते एष्यति-अनागते च क्रियाक्षणे कथं नाम तत् कार्य क्रियताम् ? ।-न कथश्चिदित्यर्थः । तथाहि-नातीत-भविष्यक्रियाक्षणी कार्यकारको, विनष्टानुत्पन्नत्वेनासत्त्वात् , खरविषाणवत् । अतः कथं क्रियान्ते कार्य स्यात् । तस्मात् क्रियमाणेव कृतमिति । यदि च क्रियमाणमपि न कृतम् , क तहिं कृतमिति वक्तव्यम् । क्रियाविगम इति चेत् । तदयुक्तम् , तदानीं क्रियाया असवात् । तदसत्वेऽपि च कार्योत्पत्ताविष्यमाणायां क्रियारम्भात् प्रागपि कार्योत्पत्तिः स्यात् , क्रियासचाविशेषात् । अथ संप्रतिसमयः क्रियमाणकालः, तदनन्तरस्तु कृतकालः, न च क्रियमाणकाले कार्यमस्ति, इत्यतः खलवकृतं क्रियते न तु कृतमित्यभिधत्से । नन्वेतदिह प्रष्टव्योऽसि किं भवतः कार्य क्रियया क्रियते उत तामन्तरेणापि भवति । यदि क्रियया, तहिं कथं सोऽन्यत्र समये अन्यत्र तु कार्यम् ? । न हि खदिरे च्छेदनक्रियायां पलाशे च्छेदःसमुपजायते । किञ्च, "क्रियोपरमे कार्य भवति, न तु क्रियासद्भावे" इति वदता प्रत्युतकार्योत्पत्तेविघ्नहेतुः क्रियेति प्रतिपादितं भवति । ततश्च कारणमप्यकारणमिति प्रत्यक्षादिविरोधः। अथ क्रियामन्तरेण कार्यमुपजायत इत्यभ्युपगम्यते, तर्हि घटादिकार्यार्थिना निरर्थकः सर्वोऽपि मृन्मर्दन-पिण्डविधान-चक्रारोपणभ्रमणादिक्रियारम्भः । अतो न कर्तव्यं मुमुक्षुभिरपि तपः-संयमादिक्रियानुष्ठानम् , तदन्तरेणापि मुक्तिसुखसिद्धेः । न चैवम् । तस्मात् क्रियाकाल एव कार्यम्, न पुनस्तदुपरम इति ॥२३१७॥ ____D. C. There is no harm if a ghata which is being produced at the final moment, is believed to have appeared only at
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org