________________
:230:
Jinabhadra Gaņi's [The seventh टीका-२१८-२१९-२२० इह कर्मप्रवादनाम्न्यष्टमे पूर्व कर्मविचारे प्रस्तुते दुर्बलिकापुष्पमित्र एवं व्याख्यानयति, तद्यथा-जीवप्रदेशै समं बद्धं बद्धमात्रमेव कर्म भवति, यथाऽकषायस्येर्यापथप्रत्ययं कर्म । तच्च कालान्तरस्थितिमवाप्यैव जीवप्रदेशेभ्यो विघटते, शुष्ककुडयापतितचूर्णमुष्टिवदिति । अन्यत्तु 'पुढे ति' "बद्धम्" इत्यत्रापि संबध्यते । ततश्च बद्धं स्पृष्टं चेत्यर्थः। तत्र बद्धं जीवेन सह संयोगमात्रमापनम् , स्पृष्टं तु जीवप्रदेशैरात्मीकृतम् । एतच्चेत्थं बद्धं सत् कालान्तरेण विघटते, आद्रलेपकुड्ये सस्नेहचूर्णवदिति । "निकाइयं ति" "बद्धं" "स्पृष्टं" "च" इत्यत्रापि संबध्यते । ततश्चापरं किमपि कर्म बद्धं स्पृष्टं निकाचितं भवतीत्यर्थः । तत्र तदेव बदस्पृष्टं गाढतराध्यवसायेन बद्धत्वादपवर्तनादिकरणायोग्यतां नीतं निकाचितमुच्यते । इदं च कालान्तरेऽपि विपाकतोऽनुभवमन्तरेण प्रायो नापगच्छति, गाढतरबद्धत्वात् , आद्रकुड्याश्लेषितनिबिडचेटिकाहस्तकवदिति । अयं च त्रिविधोऽपि बन्धः सूचीकलापोपमानाद् भावनीयः, तद्यथागुणाऽऽवेष्टितसूचीकलापोपमं बद्धमुच्यते, लोहपट्टबद्धसूचीसंघातसदृशं तु बद्धस्पृमित्यभिधीयते, बद्धस्पृष्टनिकाचितं त्वग्नितप्तधनाहतकोडीकृतसूचीनिचयसंनिभं भावनीयमिति । नन्वनिकाचितस्य कर्मणः को विशेषः १ इत्याह-'उबट्टणेत्यादि' इह कर्मविषयाण्यष्टौ कारणानि भवन्ति । उक्तं च
बंधण-संकमणु-बट्टणा य उवट्टणा उईरणया ।
उवसावणा निवत्ती निकायणा च त्ति करणाई ॥१॥ तत्र निकाचिते कर्मणि स्थित्यादिखण्डनरूपा "उबट्टणं ति" अपवर्तना प्रवर्तते । तथा “उक्केरो ति" स्थित्यादिवर्धनरूप उत्कोच उद्वर्तना । तथा "संथोमो ति" असातादेः सातादौ क्षेपणरूपः संक्रमः । तथा "खवणं ति" प्रकत्यन्तरसंक्रमितस्य कर्मग प्रदेशोदयेन निर्जरणं क्षपणम् । तथा "अणुभवो ति" स्वेन स्वेन रूपेग प्रकृतीनां विपाकतो वेदनानुभाः । इदं चोपलक्ष गादीरणादीनाम् । तदेतान्यपवर्तनादीनि सर्वाण्यनिकाचिते कर्मगि प्रान्ति, निकाचिते तु प्रायो विपाकेनानुभव एस प्रवर्तते, न पुनरपवर्तनादीनि, इत्यनयोविशेषः । समाकीविकृष्टतपसामुत्कटाध्यवसायबलेन "तवसा उ निकाइयाणं पि" इति पचना निकाचितेऽपि कर्मण्यपवर्तनादिकरणप्रवृत्तिर्भवतीति प्रायोग्रहणम् ।
तदत्र व्याख्याने क्षीरनीरन्यायेन वह्नितप्तायोगोलकन्यायेन वा जीवप्रदेशैः सह कर्म संबद्धमिति पर्यवसितं विन्ध्यसमीपे श्रुत्वा तथा विधकर्मोदयादभिनिवेशेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org