________________
Vada ]
Nihnavavāda
: 203:
टीका-१९५-१९६-१९७-१९८-१९९ इह द्रव्य-गुण-कर्म- सामान्यविशेष- समवायलक्षणाः षड् मूलपदार्थास्तेन षडुलूकेन कल्पिताः । तत्र द्रव्यं नवधा । कथम् ? इत्याह- " भू-जलेत्यादि " भूमिः, जलम्, ज्वलनः, अनिलः, नभः, कालः, दिक्, आत्मा, मनचेतानि नवद्रव्याणि भण्यन्ते । गुणाः सप्तदश भवन्ति, तद्यथा - रूपं, रस, गन्धः, स्पर्शः, संख्या, परिमाणम्, महस्वम्, पृथकत्वम्, संयोगः, विभागः, परा -ऽपरत्वे, बुद्धिः, सुखम्, दुःखम्, इच्छा, द्वेषः, प्रयत्नश्चेति । इतः कर्म तत् पुनः पञ्चविधम्, तद्यथा - उत्क्षेपणम्, अवक्षेपणम्, आकुञ्श्चनम्, प्रसारणम्, गमनमिति । सामान्यं त्रिविधम्, तद्यथा सत्ता, सामान्यम्, सामान्यविशेषश्चेति । तत्र द्रव्य-गुण-कर्मलक्षणेषु त्रिषु पदार्थेषु सद्बुद्धिहेतुः सत्ता, सामान्यं द्रव्यत्व - गुणत्वादि, सामान्यविशेषस्तु पृथिवीत्व, - जलत्व. - कृष्णत्व - नीलत्वाद्यवान्तरसामान्यरूप इति । अन्ये त्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति - अविकल्पं महासामान्यम्, त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता, सामान्यविशेषो द्रव्यत्वादि । महासामान्य - सत्तयोर्विशेषणव्यत्यय इत्यन्ये । द्रव्य-गुणकर्मपदार्थत्रय सद्बुद्धिहेतुः सामान्यम्, अविकल्पा सत्तेत्यर्थः । सामान्यविशेषस्तु द्रव्यत्वादिरूप एव । इत्यलं प्रसङ्गेनेति । विशेषश्चान्त्यः । समवायपदार्थश्रेति ।
9
तदेवमेते द्रव्यादयः षट् पदार्थाः षट्त्रिंशत्प्रमेदा:-नवानां द्रव्याणां सप्तदशानां गुणानां पञ्चानां कर्मणां त्रयाणां सामान्यानाम्, विशेष - समवाययो मीलने पर त्रिंशद् विकल्पा भवन्तीत्यर्थः । एते च सर्वे प्रकृत्या, अकारेण, नोकारेण, उभयनिषेधतश्चत्येतश्रेतुभिः प्रकारैर्गुणिताः सन्तो यच्चतुश्चत्वारिंशं शतं पृच्छानां भवति तत् पृष्टः कुत्रिकापणदेवः । इदमत्र हृदयम् - नरहितं शुद्धं पदमिह प्रकृतिरुच्यते, तया शुद्धपदरूपया प्रकृत्या पृथिव्यादयः पदार्थाः पृच्छयन्ते, तद्यथा - " पृथिवीं देहि " इत्यादि । तथा, लुप्तस्य नञः स्थाने योऽकारस्तेन चाकारेण संयुक्तया प्रकृत्या पृच्छा विधीयते, यथा “ अपृथिवीं देहि " इत्यादि । तथा नोकारेण संयुक्तया प्रकृत्या पृच्छा यथा-" नोपृथिवीं देहि” इत्यादि । तथा, नोकाराsकारलक्षणं तदुभयं तेन योऽसौ प्रकृत्या निषेधस्तस्माच्च पृष्टः सुरो यथा - " नोअपृथिवीं देहि " इत्यादि । एवं जलादिष्वपि प्रत्येकमेते प्रकृत्य-कारनोकारो भयनिषेधलक्षणाश्चत्वारः पृच्छाप्रकारा वक्तव्या इति । एतदभिप्रायवता प्रोक्तम् - " सव्वे गुणिओ" इति । आह- ननु पृथिवीं देहि" इत्यादिका याचना एव कथं पृच्छाः प्रोच्यन्ते १ । सत्यम्, किन्तु " पृथिवीं देहि ” इत्यादि
८८
"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org