________________
Vada] Nihnavavada
: 16: टीका-१५९ वृश्चिकाणां प्रतिपक्षभूता मोरीविद्या । सर्पाणां तु प्रतिपक्षभूता नकुली । मूषकाणां बिडाली । एवं व्याघ्री, सिंही, उलूकी। "उवाइ ति" पोताकीप्रतिपक्षभूता उलावकाधाना विद्येत्यर्थः। एताः परिव्राजकमथनीविद्या गृहाण त्वम् । इति सूरिणा प्रोक्ते गृहाति रोहगुप्तः । तथा रजोहरणं चाभिमन्य सूरिभिस्तस्य समर्पितम् । अभिहितश्च यथा यद्यन्यदपि किश्चित् तत्मणीतक्षुद्रविद्याकृतमुपसर्गजातमुपतिष्ठते तदा तनिवारणार्थमेतद् मस्तकस्योपरि भ्रमणीयम् । ततश्चैन्द्राणामप्यजेयो भविष्यसि, किमुत मनुष्यमात्रस्य तस्येति । ततश्च गतो राजसभां रोहगुप्तः । प्रोक्तं च तत्र तेन-"किमेष दुमक परिव्राजको जानाति । करोत्वयमेव यदृक्षया पूर्वपक्षम् , येनाहं निराकरोमि ।" ततः परिव्राजकेन चिन्तितम्-निपुणाःखल्वमी भवन्ति, तदमीषामेव संमतं पक्षं परिगृह्णामि, येन निराकतुं न शक्नोति । विचिन्त्य चेदमभ्यधायि-" इह जीवाश्चाजीवाश्चेति द्वावेव राशी, तथैवोपलभ्यमानत्वात्, शुभा-ऽशुभादिराशिद्वयवत्" इत्यादि । ततो रोहगुप्तेन तद्बुद्धिपरिभवनार्थ स्वसंमतोऽप्पयं पक्षो निराकृतः। कथम् ? इति चेत् । उच्यते-असिद्धोऽयं हेतुः, अन्यथोपलम्भात् , जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात् । तत्र जीवा नरकतिर्यगादयः, अजीवास्तु परमाणु-घटादयः, नोजीवास्तु गृहकोलिकापुच्छादयः । ततो जीवा-ऽजीव-नोजीवरूपास्त्रयो राशयः, तथैवोपलभ्यमानत्वात् , अधम-मध्यमो-त्तमादिराशित्रयवत्, इत्यादियुक्तिंभिनिष्प्रश्नव्याकरणः कृत्वा जितः परिव्राजको रोहगुप्तेन । ततोऽसौ क्रुद्धो वृश्चिकविद्यया रोहगुप्तविनाशार्थ वृश्चिकान् मुञ्चति, ततो रोहगुप्तस्तत्प्रतिपक्षभूतमयूरीविद्यया मयूरान् मुश्चति । तैश्च वृश्चिकेषु हतेषु परिव्राजकासान् मुश्चति । इतरस्त.
प्रतिघातार्थ नकुलान विसृजति । एवं मूषकाणां बिडालान्, मृगीणां व्याघ्रान् , शूकराणां सिंहान् , काकानामुलूकान्, पोतकीनामुलावकान् मुञ्चति । ततो गर्दभी मुक्ता । तां चागच्छन्तीं दृष्टा रोहगुप्तेन रजोहरणं मस्तकस्योपरि भ्रमयित्वा तेनैव रजोहरणेन ताडिता सती परिवाजकस्योपरि मूत्र-पुरीपोत्सर्ग कृत्वा गतासौ। ततः सभापतिना, सभ्यैः, समस्तलोकेन च निन्द्यमानो, नगराद् निर्वासितः परिव्राजकः ॥२४५४॥
D. C The spells of scorpions, serpents, mice deer, boars, cro ws, and parrots are respectively nullified by those of pea-cocks, mangeese, cats, tigers, lions, owls, and hawks. You should pick up all those spells properly if you want to defeat the parivrājaka.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org