________________
: 40: Jinabhadra Gani's
[The first अत्राह कश्चित्-ननु यदि यद् निषिध्यते तदस्ति, तहिं मत्रिलोकेश्वरनाऽप्यस्ति, युष्मदादिभिनिषिध्यमानत्वात ; तथा चतुर्णा समवायादिप्रतिषे. धानां पञ्चमोऽपि प्रतिषेधप्रकारोऽस्ति, त्वयैर निषिध्यमानत्वात् । तदयुक्तम् , त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते. यथा घटप्रमाणत्वं मुक्तानाम्, न तु सवथैवेश्वरता, स्व शिष्यादीश्वरतायास्तवापि विद्यमानत्वात् । तथा, प्रतिषेधस्यापि पश्चसङ्खयाविशिष्टत्वमपाक्रियते, न तु सर्वथा प्रतिषेधस्याभावः, चतु:सङ्ख्या विशिष्टस्स्य तस्य सद्भावात् । ननु सर्वमप्यसम्बद्धमिदम् , तथाहि-- मत्रिलोकेश्वरत्वं तावदसदेव निषिध्यते, प्रतिषेधस्यापि पश्चसङ्ग्याविनिष्टत्वमविद्यमानमेव निवार्यते, तथा, संयोग-समवाय-सामान्य-विशेषाणामपि गृहदेवदत्त-खरविषाणादिष्वसतामेव प्रतिषेधः, इत्यतो "यनिषिध्यते तदस्त्येव" इत्येतत् कथं न प्लवते ? इत्याशङ्कयाह-"संजोगाइचउक्कं पीत्यादि। इदमुक्तं भवति--देवदत्तादीचा संयोगादयो गृहादिष्वेवासन्तो निषिध्यन्ते, अर्थान्तरे तु तेषां ते विद्यन्त एव; तथाहि-गृहेणैव सह देवदत्तस्य संयोगो न विद्यते, अथान्तरेण तु क्षेत्र-हट्ट-ग्रामादिना सह तस्यासौ समस्त्येव, गृहस्यापि देवदत्तेन सह संयोगो नास्ति, खट्वादिना तु सह तस्यासौ विद्यत एव, एवं विषाणस्यापि खर एव समवायो नास्ति, गवादावस्त्येव सामान्यमपि द्वितीयचन्द्राभावाचन्द्र एव नास्ति, अर्थान्तरे तु घटगवादावस्त्येव; घटप्रमा. णत्वमपि मुक्तासु नास्ति, अर्थान्तरे तु कूष्माण्डादावस्त्येव । त्रिलोकेश्वरताऽपि भवप एव नास्ति, तीर्थकरादावस्त्येव, पञ्चसङ्ख्याविशिष्टत्वमपि प्रतिषेधे नास्ति, अर्थान्तरे त्वनुत्तरविमानादावस्त्येव । इत्यनया विवक्षया ब्रूम:-- "यद् निषिध्यते तत् सामान्येनास्त्येव, न त्वेवं प्रतिजानीमहे" - "यद् यत्र निषिध्यते तत् तत्रैवास्ति" इति येन व्यभिचार: स्यात् ।।
वयमपि शरीरे जीवं निषेधयामः, नान्यत्रति चेत् । साधूक्तम्, अस्मन् समीहितस्य सिद्धत्वात् , जीवसिद्धयर्थमेव हि यतामहे वयम् , स चेत् सिद्धः, तहिं तत्सिद्धयन्यथानुपपत्तरेव तदाश्रयः सेत्स्यति, किं तया चिन्तया ?। न च शरीरमन्त्ररेण जीवस्याश्रयान्तरमुपपद्यते, तत्रैव तदवस्थानलिङ्गोपलब्धेः। न च वक्तव्यम्-शरीरमेव जीवः, "जीवति", "मृतः", "मूच्छितः" इत्यादि व्यवस्थाऽनुपपत्तेः इत्यादेरभिधास्यमानत्वादिति ॥ २६॥ १५७४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org