________________
:14:
Jinabhadra Gani's
[The first [ अस्त्येव तप जीवः संशयतः सौम्य ! स्थाणु-पुरुषाविव । यत् सन्दिग्धं गौतम ! तत् तत्रान्यत्र वास्ति ध्रुवम् ॥ २३ ॥ (१५७१)
Astyèva tava jīvaḥ samsayataḥ saumya / sthāņu-puruşāviva 1 Yat sandigdham Gautama 1 tat tatrānyatra vāsti dhruvam. 23 (1571)]
Trans.---23.0 lovely Gautamal Indeed you have a soul since you have a doubt (about your existence), as is the case with a branch-less trunk of a tree and a man. Whatever is doubted, certainly exists either there or elsewhere. (1571)
टीका-हे सौम्य ! गौतम ! अस्त्येव तव जीवः, संशयतः संशयसद्भावात् , यत्र यत्र संशयस्तत् तदस्ति, यथा स्थाणु-पुरुषो, संशयश्व तव जीवे, तसादस्त्येवायम्, तथाहि-स्थाणु-पुरुषयोरुत्वारोह-परिणाहाद्युभयसाधारणधर्मप्रत्यक्षतायां चलन-शिरः कण्ड्रयनवयोनिलयन-वल्ल्यारोहणायुभयगतविशेषधमप्रित्यक्षतायां चोभयगतैतद्धर्मानुस्मरणे च सत्यकतरविशेषनिश्चयचिकीर्षोः " किमिदम् १ इति विमर्शरूपः संशयः प्रादुरस्ति । एवंभूते च स्थाणु-पुरुषादिगतसंशये तत् स्थाणु-पुरुषादिकं वस्त्वस्त्येव, अवस्तुनि संशयायोगात् । एवमात्मशरीरयोरपि प्रागुपलब्धसामान्य--विशेषधर्मस्य प्रमातुस्तयोः सामान्यधर्मप्रत्यक्षतायां विशेषधर्माप्रत्यक्षत्वेऽपि च तद्विपयानुस्मृतौ सत्यामेकतरविशेषोपलिप्सोः, “किमयमात्मा किं वा शरीरमात्रमिदम् ? इति विमर्शरूपः संशयो जायते । अयं चात्म-शरीरयोः सत्व एवोपपद्यते, नैकतरस्याऽप्यभावे, अतोऽस्ति जीवः । अथैवं ब्रूषे-अरण्यादिषु स्थाणुपुरुषसंशये तत्र विवक्षित प्रदेशेऽनयोरेकतर एव भवति, न पुनरुभयमपि, तत्कथमुच्यते-'विद्यमान एव वस्तुनि संशयो भवति' इति । तदयुक्तम् अभिप्रायापरिज्ञानात्, न हि वयमेवं बम:-" तत्रैव प्रदेशे तदुभयमप्यस्ति" इति, किन्तु यद्गतसंदेहस्तद् वस्तु तत्राऽन्यत्र वा प्रदेशे ध्रुवमस्त्येव, अन्यथा षष्ठभूत विषयोऽपि संशयः स्यात् । एतदेवाह-'जं संदिद्धमित्यादि' तस्मात् संशयविषयत्वादस्त्ये। जीव इति स्थितम् ।। २३ (१५७१) ।
D. C.-A 'branch-less trunk of a trce is seen from a distance, as if it wero a man. For, certain attributes such as
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org