________________
Vada ]
Ganadharavāda
• 21:
the guņin, the soul, is surely directly realized, on the realization of (its) gunas only. If however, it (gurin) is distinct, then the guņins such as a pitcher, etc., are not pratyakşa owing to the realization of mere guņas. (Such being the case ), whence is (the scope for ) this thought of non-existence as regards the soul ? (1559- 1560)
टीका-ननु भवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यते, अनर्थान्तरभूतो वा ?। यदि नाम सोऽनन्यस्तेभ्योऽनर्थान्तरभूतः तहिं ज्ञानादिगुणग्रहणमात्रादेव गुणी जीवः प्रत्यक्षेण गृह्यत इति सिद्धमेव । प्रयोगः-यो यस्मादनन्तरं स तद्ग्रहणे गृह्यते एव, यथा वाससि रागः। गुणेभ्योऽनर्थान्तरं व गुणी तस्माद् गुणग्राहकप्रत्यक्षेण सोऽपि गृह्यत एवेति । अथ गुणेभ्योऽन्योऽर्थान्तरभूत एव गुणी । तत एवं सति घटादयोऽपि गुणिनो न प्रत्यक्षाः, तदर्थान्तरभूतस्य रूपादिगुणमात्रस्यैव ग्रहणात् । इह यद् यस्मादान्तरभूतं तद्ग्रहणेऽपि नेतरस्य ग्रहणम् , यथा घटे गृहीते पटस्य, अर्थान्तरभूताश्च गुणिनो गुणा इष्यन्ते, अतो गुणग्रहणेऽपि न गुणिग्रहणम् । अतो घटादीनामपि समानेऽग्रहणदोष कोऽयं नाम भवतः केवल जीवे विचारो नास्तित्वविवक्षा येनोच्यते-" पच्चक्खं जं नं घिप्पइ घडोव्व " इत्यादि ? | अथ द्रव्यविरहिता केऽपि न सन्त्येव गुणाः, इत्यतस्तद्ग्रहणद्वारेण गृह्यन्त एव घटादयः । नन्वेतदात्मन्यपि समानमेव । किश्च गुणिनो गुणानामर्थान्तरत्वेऽभ्युपगम्यमाने गुणी भवतु, मा भूद् वा प्रत्यक्षः, तथापि ज्ञानादिगुणेभ्यः पृथगात्मा गुणी त्वदभ्युपगमेनापि सिध्यत्येवेति ।। (१५५९-१५६०)।
D. C.-The gunin may be either separate or non-separate from its guņas. If it is non-separate, i. e, identical, then, on realizing knowledge, etc., which are the gunas of the soul, the gunin, the soul, is directly realized. The underlying argument is as follows :--
That which is not separate from another is realized on that another being realized, e. 9., colour in a garment. To be explicit, a garment and its colour are not separate; 80, when the colour is realized, the garment, too, is realized.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org