________________
419
Vida]
Canadharavă means of karya and karana. So, like Agnubhate, you, too, ( shall have to ) accept ( the existence of ) Rirma on account of action, as well as Karyas ( in the forin of deha etc, and since Karma itself is the cause of good or bad ( in case of déha etc. ), as well as other perforinances, adınit punya and pāpa as belonging to different species by their very svabhāva ( 1914-1920)
टीका--एताश्च गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव, सुगमाश्च । नवरं "कारण- कजाणुमा सो ति" स च जीव- कर्मणोः पुण्य--पापाभिधानः परिणामः कारणेन कार्येण चाऽनुमीयते--कारणानुमानातू कार्यानुमानाच गम्यत इत्यर्थ । एतदेवानुमानद्वयमाह--"किरियाणं कारणो इत्यादि " दानादिक्रियाणां हिंसादिक्रियाणां च कारणत्वात् कारणरूपत्वादस्ति तत्फलभूतस्तत्कार्यरूपपुण्य--पापात्मको जीव-कर्मपरिणामः, यथा कृष्यादिक्रियाणां शालि-यव--गोधूमादिकम्। उक्तं च--
" समासु तुल्यं विषमासु तुल्यं सतीष्वसञ्चाप्यसतीषु सच । फलं क्रियास्वित्यथ यनिमित्तं तद् देहिनां सोऽस्ति नुकोऽपि धर्मः ॥१॥"
एतत् कारणानुमानम् । “ देहाईणमित्यादि, देहादीनां कारणमस्ति, कार्यरूपत्वात् तेषाम् . यथा घटस्य मृद् दण्ड- चक्र चीवरादिसामग्रीकलितः कुलालः । न च वक्तव्यम्-दृष्ट एव माता-पित्रादिकस्तेषां हेतुः, दृष्टहेतुसाम्येऽपि पुरूपे-तरादिभावन देहादीनां वचित्र्यदर्शनात्, तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावात् । अत एव पुण्य-पापभेदेन कर्मणो द्वैविध्यम्, शुभदेहादीनां पुण्यकार्यत्वात्. इतरेषां तु पापफलत्वात्; उक्तं च
" इह दृष्टहेत्वसंभविकार्यविशेषात् कुलालयल इव ।
हेत्वन्तरमनुमेयं तत् कर्म शुभा-ऽशुभं कर्तुः ॥ १॥" एतत् कार्यानुमानम् । तथा, मदभिहिमिति च कृत्वाऽग्निभूतिवत् त्वमपि कर्म प्रतिपद्यस्व, सर्वज्ञवचनमामाण्यादित्यर्थः । तदपि पुण्य-पापविभागेन विभक्त प्रतिपद्यख, देहादीनां तत्कार्याणां क्रियाणां च तत्कारणभूतानां शुभा--ऽशुभत्वेन तद्द्वविध्यदर्शनादिति । ३६६--३७२ ॥ (१९१४. १९२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org