________________
Vada]
Gañadharavāda टीका-न चागमगम्योऽपि सका-असौ जीवः यत्-यस्मादागमोऽपि नानुमानाद् भिद्यते, परमार्थतस्तस्यानुमानत्वात् ; तथाहि-शाब्दं प्रमाणागम उच्यते, शब्दश्च द्विविधः-दृष्टार्थविषयः अदृष्टार्थविषयश्च । तत्र दृष्टार्थविषया शब्दाद् या प्रतीतिः, सा वस्तुतोऽनुमानसमुत्थैवम् , यतः क्वचित् प्रथमं पृथुबुध्नोदरोर्ध्वकुण्ड-लोष्टायत वृत्तग्रीवादिमति घटपदार्थे घटशब्दं प्रयुज्यमानं दृष्टा तदुत्तरकालं कापि 'घटमानय' इत्यादि शब्दं श्रुत्वा पृथुबुध्नोदरादिमदर्थ एव घट उच्यते, तथाभूतपदार्थ एव घटशब्दप्रयोगप्रवृत्तः, यथा पूर्व कुम्भकारापणादौ, घटशब्दश्चायमिदानीमपि श्रूयते, तस्मात् तथाभूतस्यैव पृथुबुध्नोदरादिमतः पदार्थस्य मयाऽऽनयनादिक्रिया कर्तव्या इत्यनुमानं विधाय प्रमाता घटानयनादिक्रियां करोति, इत्येवं दृष्टार्थविषयं शाब्दं प्रमाण वस्तुतो नानुमानाद् भिद्यते । न चैवमसावात्मशब्दः शरीरादृतेऽन्यत्र प्रयुज्यमानः क्वचिद्पलब्धः, यत्र खल्वात्मशःश्रवणात् आत्मा इति प्रत्ययो भवेदिति । यदपि स्वर्गनरकाद्यदृष्टार्थविषयं शाब्दं प्रमाणं, तदपि तचतोऽनुमानं नातिवर्तते, तथाहि-"प्रमाणं स्वर्ग-नरकाद्यदृष्टार्थविषयं वचनम् , अविसंवादिवचनाप्तप्रणीतत्वात् , चन्द्रार्कोपरागादिवचनवत्" इत्येवमनुमानादेव तत्र प्रमाणता । न
चैवम्भूतमाप्तं कमपि पश्यामः, यस्यात्मा प्रत्यक्ष इति तद्वचनमागम इति 'प्रतिपद्येमहि ' इति शेषः ॥ ४ (१५५२)॥
D. C.-The existence of the soul cannot be cstablished by ăgama; for, after all, āgāma cannot be separated from anumāna, as, really speaking, āgama is (a kind of) antimāna.
Agama is defined as sabda pramāņa, and sabda (word) is tro-fold, viz., (i) drstartha--visaya (nertaining to an object which is seen) and (ii) adrstartha-visaya (pertaining to an object which is not seen ).
The conviction which is arrived at, by means of a sabda and which is associated with an object that is seen, is really an outcome of anumāna. For instance, Srst of all, one notices that the word ghata is used for an object whose belly is round and extensive, whose basin is raised up and hollower out, whose neck is round, and which is made up of earth.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org