________________
: 254: Jinabhadra Gani's
The fourth like ) crystal. etc. are seen, they exist without doubt. And, if they, too, do not exist ( according to you ), the proposition will fail, as the rear portion will not be seen Why is the reasonthat nothing could be seen-not stated ? If it ts stated, the proposition (which is) accepted before, will (constitute)direct contradiction. (1744-1745)
टीका-ननु येषां स्फटिका-ऽभ्रपटलादीनां भावानां परभागदर्शनमस्ति ते तावद् ध्रुवं सन्त्येव, इति " परभागादर्शनात् ” इत्यनेन हेतुना सर्वभावानामसचं न सिध्यति । अथ स्फटिकादयोऽपि न सन्ति तर्हि " परभागादर्श नात्" इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्त्वस्यासाधकत्वात् । अतोऽव्यापकममुं हेतुं परित्यज्य “सर्वादर्शनाद् न सन्ति भावाः" इत्ययमेव व्यापको हेतुः कस्माद् न भण्यते । ' भणइ तन्नाम त्ति' अत्र पर उत्तरं भणति । किम् ? इत्याह-तन्नामास्तु " सर्वादर्शनात्" इति-अयं हेतुस्तर्हि भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयितव्या, सा च "सर्वादर्शनात्" इत्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणास्माकम् ? इति भावः। अथ सूरिराह-" पुन्वेत्यादि " नन्विदानी " सर्वादर्शनात्" इति अवतो भवतः " परभागादरिसणओ" इति पूर्वाभ्युपगतस्य हानिः प्राप्नोति । किञ्च, ग्राम-नगर-सरित-समुद्र-घट-पटादीनां प्रत्यक्षेणैव दर्शनात् सर्वादर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः। ततः प्रत्यक्षविरोधतश्च "सर्वादर्शनात् " इत्येतदयुक्तमिति।
अत्र कश्चिदाह-ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात् सर्वथा निवृत्तो हेतुरिष्यत एव, यथा “ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् इति, न घनित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः विद्युद्-घन-कुसुमादिभिर्व्यभिचारात् । तद्वदिहापि यद्यपि सर्वेष्वपि भावेषु परभागादर्शनं नास्ति, यथापि बहुषु तावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग् हेतुर्भविष्यति । तदयुक्तम् , यतस्तत्र " यदनित्यं न भवति तत् प्रयत्नानन्तरीयकमपि न भवति, यथाऽऽकाशम् " इत्येवं व्यतिरेकः सिध्यति; इह तु यत्र शून्यता नास्ति, किं तर्हि ? वस्तुनः सचम् , परभागादर्शनमपि तत्र नास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org