________________
, 194 Jinabhadra Gani's
[The fourth can never be attained by means of itself, through another, by means of both, or through any other object. (1692).
टीका-व्यक्त ! भवतोऽयमभिप्राय:-यथा किल न स्वतः, न परतः, न चोभयतः, नाप्यन्यतो भावानां सिद्धिः संभाव्यते। कुतः १ इत्याहअपेक्षातः-कार्यकारणादिभावस्यापेक्षिकत्वादित्यर्थः, इस्व-दीर्घव्यपदेशवत् । तथाहि-यत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम् , कारणेन वा। तत्र कार्य कारणेन क्रियत इति कारणायत्त एव तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं स्वतः सिद्धं किञ्चिदस्ति । तदेवं कार्यादिभावः स्वतो न सिध्यति । यच्च स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न खतः कार्यादिभावः, नापि परतः । स्व-परोभयतस्तर्हि तस्य सिद्धिरिति चेत् । तदयुक्तम् , यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात् । न हि सिकताकणेषु प्रत्येकमसत् तैलं तत्समुदाये प्रादुर्भवति ।
अपि च, उभयतः सिद्धिपक्ष इतरेतराश्रयदोषः प्रामोति । यावद्धि कार्य न सिध्यति न तावत्कारणसिद्धिरस्ति । यावच्च कारणं न सिध्यति न तावत् कार्य सिद्धिमासादयति । अत इतरेतराश्रयदोषः। तस्माद् नोभयतोऽपि कार्यादिभावसिद्धिः। नाप्यन्यत:-अनुभयत इत्यर्थः, स्व-परो-भयव्यतिरेकेणान्यस्य वस्तुनोऽसत्त्वेन निर्हेतुकत्वप्रसङ्गात् । एवं हस्व-दीर्घलक्षणे दृष्टान्तेऽपि "अपेक्षातः” इत्यस्य ह्रस्व-दीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः । तथाहि--प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते। मध्यमा त्वपेक्ष्य इस्वत्वम् , परमार्थेन त्वियं स्वतो न इस्वा, नापि दीर्घा । तदेवं न स्वतो ह्रस्व-दीर्घत्वयोः सिद्धिः। ततः परतः, उभयतः, अनुभयतश्च तत्सिद्धयभावो यथोक्तवद् भावनीयः, तदुक्तम्
न दीर्घस्तीह दीर्घत्वं न इस्वे नापि च द्वये।।
तसादसिद्धं शून्यत्वात् सदित्याख्यायते क हि ? ॥१॥ " इस्वं प्रतीत्य सिद्धं दीर्घ दीर्घ प्रतीत्य ह्रस्वमपि । __ न किञ्चिदस्ति सिद्धं व्यवहारवशाद् वदन्त्येवम् ॥ १॥ (१६९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org