________________
: 156: Jinabhadra Gani's
[The third सव्वेंदिउवलद्धाणुसरणओ तदहिओऽणुमंतब्बो। जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥ ११२ ॥ (१६६०) Savvendiuvaladdhāņusarañaö tadahio’ņumantavvo I Jaha pancabhinnavinnāņapurisavinnānasampanno. 112. (1660) [ सर्वेन्द्रियोपलब्धानुसरणतस्तदधिकोऽनुमन्तव्यः।
यथा पञ्चमिन्नविज्ञानपुरुषविज्ञानसंपन्नः ॥११२॥ (१६६०) Sarvèndriyopalabdhānusnaraṇatastadadhiko'numantavyaḥ 1 Yathā pancabbinnavijñana puruşavijñānasampannaḥ, 112 (1660)]
___ Trans.--112 Just as, from five different persons having five different vijñānas, a sixth person possessing all the five vijfānas is different, so also, the soul who remembers an object cognized by all the sense-organs, should be inferred as being distinct from them. (1660)
टीका-सर्वेन्द्रियोपलब्धार्थानुसरणतः कारणात् बदधिकोऽस्ति जीवः । दृष्टान्तमाह-यथा पञ्च च ते भिन्नविज्ञानाश्च पञ्चभिन्न विज्ञाना इच्छावशात् प्रत्येक स्पर्श-रस-गन्ध-रूप-शब्दोपयोगवन्त इत्यर्थः, पञ्चभिन्न विज्ञानाश्च ते पुरुषाश्च पञ्चभिन्न विज्ञानपुरुषास्तेषां यानि स्पर्शादिविषयाणि विज्ञानानि तैः संपन्नस्तद्वेत्ता यः षष्ठः पुरुषस्तेभ्यः पञ्चभ्यो भिन्नः । इदमत्र तात्पर्यम्य इह यैरुपलब्धानामर्थानामेकोऽनुस्मा स तेभ्यो भिन्नो दृष्टः, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपुरुषपञ्चकात् तदशेषविज्ञानाभिज्ञः पुमान् , इच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानेन्द्रियपश्चकाशेषविज्ञानवेत्ता चायमेक आत्मा, तस्मादिन्द्रियपञ्चकाद् भिन्न एवेति। शब्दादिभिन्नविज्ञानपुरुषपश्वस्येव पृथगिन्द्रियाणामुपलब्धिप्रसङ्गतोऽनिष्टापादनाद् विरुद्धोऽयं हेतुरिति चेत् । न, इच्छानुविधायिविशेषणात्, इच्छायाश्चेन्द्रियाणामसंभवात् , सहकारिकारणतयोपलब्धिकारणमात्रताया इन्द्रियेष्वपि सद्भावात् , उपचारतस्तेषामप्युपलब्धेरविरोधाददोषः। किञ्च, प्रतिपत्त्युपायमात्रमेवैतत्, न ह्यतीन्द्रियेवर्थेष्वेकान्तेनैव युक्त्यन्वेषणपरैर्भाव्यम् । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org