________________
:08: Jinabhadra Gani's
[The second Trans.—72 O gentle one! By the very fact that the souls are active mostly in (doing) deeds, the fruits of which are visible ( in this very life ), learn (from me) that by that very ( reason ) those are also ( deeds) the fruits of which are invisible, i. e. to be had in a subsequent birth. (1620)
टीका-सौम्य ! इत्यनिभूतेरामन्त्रणम् , यत एव प्राणिनः प्रायेण कृषि-वाणिज्य-हिंसादिकास्वेव दृष्टफलास्वशुभक्रियासु प्रवर्तन्ते, अदृष्टफलासु पुनदानादिकासु शुभक्रियासु स्वल्पा एव प्रवर्तन्ते, तेनैव तस्मादेव कारणात् ता अपि कृषि-हिंसादिका दृष्टफला क्रिया अदृष्टफला अपि प्रतिपद्यस्वाम्यपगच्छ । इदमुक्तं भवति-यद्यपि कृषि-हिंसादिक्रियाकारो दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थम्, तथापि तेऽधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव, अनन्तसंसारिजीवान्यथानुपपत्तेः। ते हि कृषि-हिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्धाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्टन्ति, दानादिक्रियानुष्ठातारस्तु स्वल्पा अदृष्टं धर्मरूपं फलमासाब क्रमेण मुच्यन्त इति ।
ननु दानादिक्रियानुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत् तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं तत् तेषां कथं भवति ? इति चेत् । तदयुक्तम् , न ह्यविकलं कारणं स्वकार्य जनयद कस्याप्याशंसामपेक्षते, किन्त्वविकलकारणतया स्वकार्य अनयत्येव । वप्तुरज्ञातमपि हि कोद्रवादिबीज कचिद् भूप्रदेशे पतितं जलादिसामग्रीसदावेविकलकारणतां प्राप्तं वत्राशंसामावेऽपि स्वकार्य जनयत्येव अविकलकारणभूताश्च कृषि-हिंसादयोऽधर्मजनने । अतस्तत्कगताशंसा तत्र कोपयुज्यते ।। न च दानादिक्रियायामपि विवेकिनः फलाशंसां कुर्वते, तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति । तस्मात् शुमाया अशुमायाथ सर्वस्या अपि क्रियाया अदृष्टं शुभाशुभ फलमस्त्येवेति प्रतिपचव्यम् , अनन्तसंसारजीवसत्चान्यथानुपपत्तेरिति स्थितम् ॥ ७२ ॥ (१६२०)
D. C.-O gentle one ! Thus Agnibhūii is addressed. By the very fact that creatures generally become active in (doing )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org