________________
426 स्वमांसं परमासेन यो वर्धयितुमिच्छति । उद्विगं लभते वासं, यत्र तत्रोपजायते ॥६॥ दीक्षितो ब्रह्मचारी वा यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं गच्छेदधर्मः पापपौरुषः ॥ ७ ॥ आकाशगामिनो विप्राः पतिता मांसमक्षणात् । विप्राणां पतनं दृष्ट्वा तस्मान्मांसं न भक्षयेत् ।। ८ ॥ शुक्रशोणितसंभूतं यो मांस खादते नरः । जलेन कुरुते शौचं, हसते तं हि देवताः॥९॥ श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत ! । तेषु प्रामोति सस्नानं यो मांसं नैव भक्षयेत् ॥ १० ।। नाग्निना न च मर्येण न जलेनापि मानब ।। मांसस्य भक्षणे शुद्धिः, एष धर्मो युधिष्ठिर । ॥ ११ ॥ किं लिङगवेषग्रहण : ? क शिरस्तुंडमुण्डनै : ?। यदि खादन्ति मांसानि, सर्वमेव निरर्थकम् ।। १२ ।। यया घनगज : स्नातो, निर्मले सलिलार्णवे । रजसा गुण्डते गात्रं, तद्वन्मासस्य भक्षणम् ॥ १३॥ प्रमास पृष्करं गङगा, कुरुक्षेत्रं मरस्वती। देविका चन्दभागा च, सिन्धुश्चैव महानदी॥१४॥ मलया यमुना चैव, नैमिषं च गया तथा। सरयू कौशिकं चैव, लौहित्यं च महानदम् ॥ १५॥ एतैस्तीथैर्महर्दिक , कुर्याच्चैवामिषेचनम् । अमक्षण व मांसस्य न च तुल्यं युधिष्ठिर ! ॥१६॥ यो दद्यात्कांचनं मेरु, कृत्स्नां चैव वसुन्धराम् । अमक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org