SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकः ॥श्रीरघुवंशप्रथमश्लोकार्थः॥ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥१॥ ॥इति श्रीरघुवंशप्रथमश्लोकः सम्पूर्णः॥ (अव.)अहं? कालिदासनामा कविः पार्वतीपरमेश्वरौ वन्दे। वन्दे इति क्रियापदम्। कः कर्ता? अहम् । अहं कहतां हं वंदे कहतां वंदं छं। स्या प्रति? कौ कर्मतापन्नौ? पार्वतीपरमेश्वरौ। पर्वाणि वा पराणि सन्तीति पर्वतः हिमाचलः पर्वतस्यापत्यं पार्वती. परा-उत्कृष्टा; मा शक्तिर्यस्यासौ परमः, इष्टेऽसौ ईश्वरः, परमश्चासावीश्वरश्च परमेश्वरः, पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ तौ पार्वतीपरमेश्वरौ। कीदृशौ पार्वतीपरमेश्वरौ? पितरौ। माता च पिता च पितरौ। तौ कस्य? जगतः, गच्छति स्थित्युत्पत्तिविनाशं प्राप्नोतीति जगत, तस्य जगतः। पुनः कीदृशौ पार्वतीपरमेश्वरौ? सम्पृक्तौ-सम्मिलितौ। काविव? वागर्थाविव। वाक् च अर्थश्च वागर्थौ। यथा वागर्थौ सम्पृक्तौ भवतः, पार्वतीपरमेश्वरौ सम्पृक्तौ स्तः। कस्यै? वागर्थप्रतिपत्तये। उच्यते अनया सा वाक्, वाक् च अर्थश्च वागर्थों, वागर्थयोः प्रतिपत्तिः वागर्थप्रतिपत्तिः, तस्यै वागर्थप्रतिपत्तये शब्दार्थसम्यग्ज्ञानाय। अथवा पार्वती पाति रक्षतीति पार्वतीपः सः, (इ.} रमायाः-लक्ष्म्या ईश्वरो रमेश्वरः। पार्वतीपश्च रमेश्वरश्च पार्वतीपरमेश्वरौ। तौ पार्वतीपरमेश्वरौ हरहरी। अथवा पार्वती पिपर्ति पालयतीति पार्वतीपरः शिवः, माया:२=पद्मायाः ईश्वरः, मेश्वरः विष्णुः। पार्वती परमेश्वरश्च पार्वतीपरमेश्वरौ तौ पार्वतीपरमेश्वरौ। उभयोः किमिति नमस्कारः कृतः? तच्च शिवा शब्दमयी प्रोक्ता शम्भुश्चार्थमयः स्मृतः। अथ शब्दार्थनिष्पत्तिसिद्ध एतौ नतौ मया॥ ( ) नन्वन्येषु गणेशादिदेवेषु सत्सु उमामहेश्वरयोर्नमस्कारः कथं कृतवान्? तत्राहईश्वराज्ज्ञानमन्विच्छेन्मुक्तिमिच्छेज्जनार्दनात् । आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात्॥( ) अत एव पार्वतीनमस्कारेण ग्रन्थस्य सौभाग्यं स्यात्, ईश्वरनमस्कारेण शास्त्रस्य निर्विघ्नसिद्धिः स्यात्। नन्वादौ परमेश्वरपदं विहाय पूर्वं पार्वतीपदं कथमग्रहीत्? पार्वती तु जगत्सृष्टिकर्त्यस्ति अतः। सा पूज्या एव। यतःपतिता गुरवस्ताड्या नैव माता कदाचन। गर्भधारणपोषाभ्यां तेन माता गरीयसी॥ (शं) तर्हि पशुरामेण जननी कथं हता? उच्यते— यत्कृतं पशुरामेण हता माता च रेणुका। मानुषैस्तन्न कर्तव्यं न देवचरितं चरेत्॥ अतः कारणात् माता सदैव पूज्यैव, तस्मात्पार्वतीपदं गृहीतम्। ॥इति श्रीरघुवंशप्रथमश्लोकार्थः सम्पूर्णः४॥ १. लेखकद्वारा लिखितो मङ्गलरूपः पाठ्यांशोलुप्तः। २. मा इति शब्दस्य षष्ठयेकवचनम्। ३. अथ शब्दार्थनिष्पत्तिसिद्धये तौ-अथशब्दार्थनिष्पत्तिसिद्धावेतौ इति भाव्यम्? ४. लेखकप्रशस्ति- लेखकपाठकयोः शुभं भवतु। श्रीरस्तुः॥ कल्याणमस्तु। पाठकस्य विद्यावृद्धिं भूयात्।श्रीयास्तुः॥श्री॥छ।।
SR No.007792
Book TitleShrutdeep Part 01
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy