SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृका ॥श्रीकल्याणकस्तुतिः॥ श्रीमल्लिजन्मव्रतकेवलानि तथा नमिज्ञानमरव्रतं च। यस्यामजायन्त सिता सहस्या सेसै कादशी स्यान्न हि कस्य शस्या ?॥१॥(उपजाति) यत्राऽश्वसेननरनाथगृहं महा स्वागमेन च यत(तस्) त्रिदिवं विरेजे। सा पौषकृष्णदशमी जिनपार्श्वजन्मपूता पवित्रयतु मानसमस्मदीयम्॥२॥(वसन्ततिलका) असिता तपसस्त्रयोदशीयं शिवहेतुर्भवति स्म यस्य नेतुः। दशसाधुसहस्रसंयुतस्य प्रथमस्तीर्थपतिः पृणातु सोऽस्मान्॥३॥ सर्वे धुलोकाऽऽगमजन्मदीक्षाज्ञानाऽपवर्गाप्तिदिना जिनानाम्। महोत्सवोद्योतमया मयाऽमी स्मृताः समाधिं ददतां च बोधिम्॥४॥(उपजाति) च्यवनजननदीक्षाकेवलज्ञानमोक्षाऽऽगमस[म]यविशेषे(यू)त्सवाढ्येषु येषाम्। क्षितिवलयमिहाऽऽप्तस्वर्गशोभं बिभर्ति प्रददतु मुदमाप्तास्तेऽत्र कालत्रयेऽपि॥५॥ (मालिनी) उत्सर्पिण्यवसर्पिणीषु भरतेष्वैरावतेष्वर्हतां सर्वेषामपि भूतभाविभविनां कल्याणकेषु क्रमात्। मासान् भानि तिथींश्च शाश्वततया तान्येव विज्ञा जगुर्यस्मात्तज्जिनभाषितं प्रवचनं भक्त्या नमामोऽन्वहम्॥६॥(शार्दूलविक्रीडितम्) ये श्रीतीर्थाधिपानां समसमयभुवां विंशतेर्वादशानाम्, तावद्रूपैरुपेता इह महिमभरं पञ्चकल्याणकेषु। अर्हत्भक्तिप्रमोदात्तृणतुलितदिवः कुर्वते सर्वकालम्, ते सर्वेऽपीन्द्रमुख्या विदधतु विबुधाः सङ्घलोकाय भद्रम्॥७॥(स्रग्धरा) ॥कल्याणकस्तुतिः॥ १. सहस् = मार्गशीर्षमासः। 'मार्गशीर्षः सहः सहाः' (अभिधानचिन्तामणिः- १५२) २. अर्थशंकास्पद है। ३. श्री.........पठनार्थम्। इति अन्तिमवाक्यम्।
SR No.007792
Book TitleShrutdeep Part 01
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy