________________
३२
[मूल]
न वाच्यं कुपिते राज्ञि हितं वाप्यहितं वचः ।
शीतमप्यम्बु दोषाय नराणां तरुणज्वरे ॥ १६७॥ (२.८०)
(अन्वयः) राज्ञि कुपिते (सति) हितम् अहितं वा वचः अपि न वाच्यम्, नराणां तरुणज्वरे शीतम् अम्बु अपि
दोषाय ।
(अर्थः)
राजा क्रुद्ध होने पर, हित या अहित वचन भी नहि बोलने चाहिए, मनुष्य को चढते बुखार में थंडा जल भी दोष के लिए होता है।
[मूल]
सुभटः स्वामिनं
मुक्त्वा सङ्ग्रामाङ्गणमाश्रितम्।
पलायनपरो भीरुर्नरकं याति निश्चितम् ॥ १६८॥ (२.८१)
(अन्वयः सङ्ग्रामाङ्गणमाश्रितं स्वामिनं मुक्त्वा पलायनपरो भीरुः सुभटः निश्चितं नरकं याति।
(अर्थः)
बुद्धिसागरः
संग्राम के मैदान को प्राप्त ऐसे स्वामी को छोडकर पलायन में तत्पर ऐसा कायर योद्धा निश्चित ही नरक को प्राप्त होता है।
[मूल]
स्वामिनोऽर्थे गतप्राणस्तस्य किञ्चिन्न साहसम् । 'भ्रष्टो निर्लज्जः शूरसंसदि ॥ १६९॥(२.८२)
तत्साहसं 'रणाद्'
(अन्वयः) स्वामिनोऽर्थे (यः) गतप्राणस्तस्य न किञ्चित् साहसं (किन्तु) तत्साहसं (यत्) रणाद् भ्रष्टः शूरसंसदि
निर्लज्जः ।
(अर्थः)
अपने स्वामी के लिए (जिसने ) अपने प्राणों को त्याग दिया है वह कोई अविचारी कृत्य नही हैं, लेकिन वह अपराध है जो रणभूमि से भ्रष्ट होकर शूरों की सभा में निर्लज्ज होकर बैठा हो ।
[मूल]
सङ्ग्रामाद्विमुखस्यास्य रौरवं तच्च तिष्ठतु ।
तत्पत्नी स्वं मुखं नैव सखीनां दर्शयत्यपि ॥ १७० ॥ (२.८३)
(अन्वयः) सङ्ग्रामाद्विमुखस्यास्य रौरवं तच्च तिष्ठतु तत्पत्नी स्वं मुखमपि सखीनां नैव दर्शयति। (अर्थः) रणभूमि से लौटकर आए हुआ पुरुष नरक में जाता है यह बात तो दूर की है उसकी पत्नी अपने सहेलियों को मुख दिखाने लायक भी नहि रहती।
अथ सर्वोपदेशः ।
[मूल]
न सभासु वदेत्प्राज्ञः परमर्माणि कर्हिचित्।
वञ्चनं स्वापमानं च गोप्यं नैव प्रकाशयेत् ॥ १७१ ॥ (२.८४)
(अन्वयः) प्राज्ञः सभासु परमर्माणि कर्हिचित् न वदेत्। वञ्चनम्, स्वापमानम्, गोप्यं च नैव प्रकाशयेत्।
(अर्थः)
बुद्धिमान को सभा में दूसरों के मर्म को कभी भी नही बोलना चाहिए। ठगाइ, अपना अपमान, गुप्त बात इनको कभी भी प्रकट नहीं करना चाहिए।
१. अयं श्लोकः हस्तप्रतिषु न दृश्यते-को२०००८, को१५९३२, ओ २८७८