________________
४
अतोऽत्र धर्ममूलत्वान्नयादित्रितयस्य तु ।
धर्मबुद्धितरङ्गोऽयमाद्यः प्रारभ्यतेऽधुना॥१९॥(१.१९)
[मूल]
(अन्वयः) अतः अत्र धर्ममूलत्वात् तु नयादित्रितयस्य अयम् आद्यः धर्मबुद्धितरङ्गः अधुना प्रारभ्यते । इसिलिए यहां धर्म, नयादि तीनोंका मूल होने के कारण, यह पहिला धर्मबुद्धितरङ्ग अब प्रारम्भ किया जाता है।
(अर्थः)
[मूल]
(अन्वयः)
(अर्थः)
[मूल]
अथ धर्मप्रशंसा
[मूल]
धर्माद्राज्यं यशो लक्ष्मीः पुत्राः कायस्त्वनामयः ।
तपस्यभिरतिश्चापि केवलज्ञानमुत्तमम्॥२०॥(१.२०)
(अर्थः)
(अन्वयः) धर्माद् राज्यम्, यशः, लक्ष्मीः, पुत्राः कायः तु अनामयः तपस्यभिरतिः अपि च उत्तमं केवलज्ञानम्। धर्म से राज्य, यश, लक्ष्मी, पुत्र, शरीर, आरोग्य, तप में अभिरुचि और उत्तम ऐसा केवलज्ञान प्राप्त होता है।
बुद्धिसागरः
तपो ज्ञानं तथा दानं तीर्थं स्वाध्याय एव च।
शमो जीवदया चेति धर्ममूलानि संविदुः॥२१॥(१.२१)
तपः, ज्ञानम्, तथा दानम्, तीर्थम्, स्वाध्याय एव च शमः जीवदया च इति धर्ममूलानि संविदुः। तप, ज्ञान, वैसे हि दान, तीर्थ, स्वाध्याय, शम और जीवदया यह धर्म के मूल मानते है।
तपोदानादिसिद्धिस्तु बह्वायासव्ययैर्भवेत्।
अयत्नसाध्यातिफला दया तेषु प्रशस्यते ॥ २२॥ (१.२२)
(अन्वयः) तपोदानादिसिद्धिः तु बहु आयासव्ययैः भवेत्, तेषु अयत्नसाध्यातिफला दया प्रशस्यते।
(अर्थः)
तप,दान, आदि कि सिद्धि बहुत प्रयत्न करने से होती है। उनमें बिना कष्ट से साध्य होने वाली और अधिक फल से युक्त ऐसी दया प्रशंसनीय है।
[मूल]
परमात्मा हि सर्वज्ञो यः साक्षी जीवकर्मणाम्।
जीवानां पालनात्त्राणात्परितुष्टो भवेत् स हि ॥ २३॥ (१.२३)
(अन्वयः) यः हि जीवकर्मणां साक्षी, सर्वज्ञः, स परमात्मा हि जीवानां पालनात् त्राणात् परितुष्टः भवेत्। (अर्थः) जो जीवों के कर्मों का साक्षी, सब कुछ जाननेवाला ( है ) ऐसा वह परमात्मा जीवों के पालनसे, रक्षणसे संतुष्ट होता है।
[मूल]
यो द्वेष्टि मनुजो मोहात्कृमिकीटपशूनपि ।
स्वात्मद्वेषः कृतस्तेन ध्रुवं निरयपातनात् ॥ २४ ॥ (१.२४)
(अन्वयः) यः मनुजः मोहात् कृमिकीटपशून् अपि द्वेष्टि, तेन ध्रुवं निरयपातनात् स्वात्मद्वेषः कृतः।