________________
46
EXTRACTS FROM MANUSCRIPTS
पालयामास तेषां चतुर्णा चत्वारो. गच्छा बभूवुः । अथोपदेशशतस्य संग्रहमाह श्रीसर्वज्ञस्यानापालनमेव समस्तोपदेशानां रहस्यं विमृश्य तथा कथंचित् चारित्रं यतितव्यं यथा संसारे पुन याति । इति धर्मोपदेशशतकसूत्रस्य सर्वसंग्रहः संपूर्णः । श्री । इति श्रीमन्मेरुतुंगाचार्यविरचिते धर्मोपदेशशतकविवरणे महापुरुषविरचिते पञ्चमः सर्गः ॥
प्रोन्मीलद्वज्रमूकः सरलतरलसद्वरिशाखाभिरामः सम्पोतिः साधुरत्नावलिदलपटलः कीर्तिदिव्यप्रसूनः । यच्छन् वांछातिरिक्तान्यभिलषिन्यन्वहं ( लषनन्वहं ) पुण्यभाजां श्रीमन्नागेन्द्रगच्छो जगति विजयतां जंगमकल्पवृक्षः ॥१॥ यत्प्रोक्तं हितशास्त्रगौरवभयाद्यच्छोतृवर्गस्य च । श्रोत्राणां कटुताकरं कुसमयस्फुर्तेयवाध्यं च यत् । उत्सत्रं प्रवलप्रसादवशतः प्रोक्तं मया साधु यत तत्सर्व श्रुतिमूर्तिरेष भगवान् साक्षाग्जिनः क्षामतु (क्षाम्यतु) ॥२॥ इति श्रीग्रन्थस्य श्लोकसंख्या। ग्रं० १२७४ ॥ शुभं भवतु श्रीः ॥ संवत् १६४९ वर्षे अषाढमासे कृष्णपक्षे शनी सिद्धियोगे । श्रीबृहत्खरतरगच्छ श्रीजिनचन्द्रसूरिराज्ये श्रीसागरसूरिशाखायां वाचनाचार्यधुर्यवर्यासाधुलालगाण तत् शिष्य वा. चारुधर्मगणि तशिष्यवाचनाचार्यधुर्यवर्यश्रीसमय. कलशगणिगजेन्द्राणां ततशिष्यमुख्यपं० सुखनिधानगणिना लिपी चक्रे अमरसरेऽकबरराज्ये संवत् १७७१ वर्षे श्रावणसुदि ८ दिने पण्डितश्रीवीरमसागरगणयो दिवं गताः । तेषां श्रेयोऽर्थे पण्डितदोलतिरामगणिना श्रीविक्रमपुरज्ञानरत्नकोशे इदं पुस्तकं प्रदत्तम् ।
No. 615. Yogabindu, by HARIBHADRA, with a commentary [योगबिन्दुः-सटीकः मू. हरिभद्रसूरिः]. Commentary begins :
सद्योगचिन्तामणितोऽनणीयो येनाधिजिग्ये जगतः पतित्वम् । स मोगिवृन्दारकवृन्दवन्द्यो यतादवद्यानि धनं जिनो नः॥१॥