________________
PURCHASED FOR GOVERNMENT.
45
प्राप्त्याऽनशनं चिकीर्षुः । श्रीवज्रस्वामी वज्रसेनमुनिं प्रत्याह यत्र लक्षेनैकेन एकस्थाली उत्तरति तत्र गत्वा स्थातव्यम् । अथ शेषमुनीन् प्रत्याह । सव्वथ संजमं संजमा उप्पाणमेव रश्किज्जा ।
मुच्चइ अइवा याउ पुणो विसोहीन सेविरई ॥ १॥
अथ मुनयो गुरून् विज्ञापयामासुः ।
पिण्डं असो हमंतो अविरित्ती द्रस्थ ससउनस्ति ।
चारित्तं मिअसते सव्वादिगुका निरर कया ॥ २ ॥
तो वयममुं देहमपातुमीहामहे इति तदनुमतो निःसीमसौभाग्यानधिर्भगवान् वज्रसेनवर्ज पञ्चशतानि तपोधनानां क्षुल्लकमेकं तलग्रामे सु परित्यज्य मुनीन् सह गृहीत्वा गिरिमारुरोह । स क्षुल्लकः प्रभाते कृतानशनः प्रथमं स्वर्गं जगाम । अथ स तद्वपुषि पूजार्थं सुरानागतो विलोक्य परिवारेण विद्वता गुरवः । क्षुल्लकवृत्तान्तं कल्पितोपयोगा विज्ञापयामासुः । अथ तान् धाराधिरूढवैराग्यसाहस्रान् काचित् मिथ्यादृग्देवता कल्पितमानुषीवेषा विविधानि भोग्यवस्तूनि उपनीय निमन्त्रितवती । भगवान् वज्रस्वामी तस्या अवग्रहं प्रीतिहेतुमवगम्य तं गिरिं परिहृत्य प्रत्यासनं पर्वतान्तरमधिरुह्य तद्देवताया अनुज्ञापनार्थ कायोत्सगं कृत्वा सर्भक्तिकं तत्पर्वतदेवतया सेव्यमानः अनशनं प्रतिपाल्य स्वर्ग प्राप । अनेन महात्मना सह दमशमं पूर्वं तुयं संहननं व्यवच्छिन्नं महर्षीणां निर्वाणे तीर्थभूमिरिति रथारूढेण शक्रेण प्रदक्षणीकृत इति स हि गिरिः रथावर्त्त इति पप्रथे । अथ वज्रस्वामिशिष्य श्रीवज्रसेनः सोपारे प्राप्तः गोचरचर्यां काळे जिनदत्तस्य गृहमुपेतस्तेन ईश्वरीनाम्न्या तत्पत्न्या च ससंभ्रममुत्थाय प्रणतोऽस्या लक्ष्यमूल्यद्रव्योदनसिद्धायां स्थाल्यां विषं निक्षिप्य आगामिनि दिने एतावता द्रव्येणान्नस्याप्राप्तिं विमृश्य सपुत्रोऽपि तदन्नमुपभुज्य विपद्यामाहे इति विज्ञतौऽवज्ञस्तान् मरणानिषिध्य स स्वयमुपात्तभिक्षुः परणकं चकार । तान् सर्वान् दीक्षयाऽनुजग्राह । अतः प्रातः पञ्चशतेषु प्रवहणेषु धान्यपूर्णेषु समागतेषु सुभिक्षे संजाते सुखेन संयमं चन्द्रनागेन्द्रनिर्वृत्तिविद्याधर इत्याभिधानैश्चतुर्भिर्मुनिभिरुपास्यमानः सर्वेषामन्येषां च प्रतिबोधं यच्छन् प्रति