________________
41
PURCHASED FOR GOVERNMENT.
इति श्रीचन्द्रसूरिशिष्य श्री देवेन्द्रसूरिविरचिते उपमितिभवप्रपञ्चकथासारोद्धारे पूर्वसूचितमीलवकवर्णनो नाम अष्टमः प्रस्तावः समाप्तः ॥
समाश्रितो यः शरणं क्षमाभृद्गणेन कर्माक्षनिपातभीत्या | अवारपारश्रियमादधानः स चन्द्रगच्छोऽस्ति भुवि प्रसिद्धः ॥ ९ ॥ भग्यारविन्दप्रतिबोध हेतुरखण्डवृत्तः प्रतिषिद्धदोषः । श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः ॥ २ ॥ तरपट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः ।
मुदं न कस्मै रहितं विकृत्या तपश्च वित्तं च तनोति यस्य ॥ ३ ॥ श्रीमानथाजायन शान्तिसूरियतः समुद्रादिव शिष्पमेघाः । ज्ञानामृतं प्राप्य शुभोपदेशवृष्टया व्यधुः कस्य मनो न शस्यम् ॥४ ॥ ततो बभूवोभयदेवसूरिर्यदीयवाणी गुणरत्नहृद्या ।
मेध्या भरेन्दुलसिता विभाति वेलेत्र मध्यस्थजिनागमाब्धेः ॥ ५ ॥ - प्रसन्नचन्द्रोऽथ बभूव सूरिर्वक्तुं गुणान् यस्य नाही क्षमोऽभूत् । सहस्रवक्रोऽपि भुजङ्गराजस्ततो हिया वैष रसातलेऽगात् ॥ ६ ॥ अथाजनि श्रीमनिरत्नसूरिः स्वबुद्धिनिर्धूतसुरेन्द्रसूरिः । रचन्ति शास्त्राण्यखिलानि यस्य स्थिरोन्नते मानसरोहणाद्रौ ॥ ७ ॥ श्रीचन्द्रसूरिस्तु गुरुस्ततोऽभूत्प्रसन्नतालंकृतमस्तदोषम् । चित्तं च वाक्यं च वपुश्च यस्य कं न प्रमोदात् पुलकं करोति ॥ ८ ॥ सूरिर्यशोदेव इति प्रसिद्धस्ततोऽभवद्यत्पदपङ्कजस्य । रजोभिरालिङ्गितमौलयोऽपि चित्रं पवित्राः प्रणता भवन्ति ॥ ९ ॥ तत्पाणिपद्मोल्लसितप्रतिष्ठः श्रीचन्द्रसूरिप्रभुशिष्यलेशः । देवेन्द्रसूरिः किमपीति सारोद्धारं चकारोपमितेः कथायाः ॥ १० ॥ इतश्च शिष्यो गणधारिदेवानन्दस्य रत्नप्रभसूरिपट्टे । बभूव सूरिः कनकप्रभाख्यो निधिर्गुणानामिह चन्द्रगच्छे ॥ ११ ॥ तदीयाशष्यः किल बालचन्द्रसूरेः कवीन्द्रादुदितप्रतिष्ठः । अशोधयंद्बोधिविशुद्धयेऽमुं प्रद्युम्नसारीर्विनयोपरुद्धः ॥ १२ ॥
B 417-6
આચાર્ય આનશંકર ધ્રુવ
ગ્રંથ સંગ્રહ
ગુજરાત વર્નાકયુલર સેાસાયટી અમા
CCCOO