________________
EXTRACTS FROM MANUSCRIPTS
मारीत्यवमनिराकृति सहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरंतनाचार्यमहिमभृतः ॥ ८ ॥ श्रीजयचन्द्रगणेन्द्रा निस्तन्द्राः संघगच्छकार्येषु । श्रीभुवनसुन्दरवरा दूरविहारैर्गणोपकृतः ॥९॥ विषममहाविद्यातद्विडम्बमाब्धौ तरीव वृत्तियः । विदधे यज्ज्ञाननिधिं मदादिशिष्या उपाजीवन् ॥ १० ॥ एकाङ्गा अप्येका दशाङ्गिनश्च जिनसुन्दराचार्याः। निम्रन्थाः ग्रन्थकृतः श्रीमजिनकीर्तिगुरवश्च ॥ ११ ॥ एषां श्रीसुगुरूणां प्रसादतः षट्कुतिथिमिते १५१६ वर्षे । जग्रन्थ ग्रन्थमिमं सुगमं श्रीरत्नशेखरः सूरिः ॥ १२॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरप्रमुखैः । शोधनलिखनादिविधौ न्यधायि सांनिध्यमुद्युक्तैः ॥ १३॥ प्रत्यक्षरं निरीक्ष्यास्य विपश्चिद्भिर्विनिश्चिता। पञ्चषष्ठयाधिकाऽनुष्टुप्सहस्राणां चतुष्टयी ॥ १४ ॥ तच्छोधयन्तु सुधियो यन्मतिमान्द्यादवद्यमुदितमिह ।
ग्रन्थोऽयं चिरसमयं जयताज्जयदायश्च विदाम् ॥ १५॥ त्याचारप्रदीपग्रन्थः । संख्या ४०६५ संपूर्णा ॥ संवत् १६५५ वर्षे वैशाखवाद १४ रवी अद्येह श्रीपत्तने जोसीमीमजीलिखितं ॥ श्रीशुभं भवतु ॥ कल्याणमस्तु ।।
-
No. 554. Upamitibhavaprapanchakathasaroddhara, by DEVENDRASURI [उपमितिभवप्रपञ्चकथा सारोद्धार :-देवेन्द्रसूरिः]. Ends:
श्रुत्वैनामनुसुन्दरस्य च महीभर्तुः कथामद्भुतां भो भव्याः शरणं जिनागममिमं यूयं श्रयध्वं सदा । यो (ये नोचैर्गुरुकर्मका अपि नवादस्य प्रसादांद्यदयं (प्रसादाद्वयं) निया(निषूया )खिलमप्यनश्वरसुखां श्रेयःश्रियं प्राप्नुतः (प्राप्नुमः)
॥६१५॥