SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ? 36 EXTRACTS FROM MANUSCRIPTS विज्ञाय तार्किकवरेक विचारवेद्यं वैषम्यगुम्फनबशान्मधुकोशबन्धम् ॥ ८ ॥ ग्रन्थारम्भे प्रारब्धग्रन्थपरिसमाप्त्यर्थं प्रन्थश्रोतॄणामपि प्रत्यूहव्यूहव्युदासार्थं शिष्टाचारपरिपालनार्थं च ग्रन्थकारः प्राग् विशिष्टदेवताप्रणामं निबद्धवान् ॥ प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणम् । स्वर्गापवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् ॥ १ ॥ नानामुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात् । सोपद्रवारिष्ट निदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम् ॥ २॥ युग्मम् । Ends: सुभाषितं तत्र यदस्ति किञ्चित् तत्सर्वमेकीकृतमत्र यत्नात् । विनिश्चयेत्सर्वरूजां नृणां वा यन्माधवेनेन्दुकरात्मजेन ॥ यत्कृतं सुकृतं किंचित् कृत्वैनं रुग्विनिश्चयम् । मुञ्चन्तु जन्तवस्तेन नित्यमातंकसन्ततिम् ॥ इत्यातंकदर्पणे निदानव्याख्यायां विषनिदानं समाप्तम् । शुभं भूयात् । संवत् १८४१ मिति० माघसुदि १४ चन्द्रे लिखितं पूर्णतामागात् । लिखायितं वैद्यचन्द्रभानुनाम्ना ॥ शुभं भूयात् । लिखितेन निदादेन माधवेनैव माधवः । प्रीयतां गोकुलेशश्च स्वर्गवैकुण्ठदः प्रभुः ॥ श्रीमद्गोकुलनाथस्य पदौ नत्वा प्रसन्नधीः। दर्शनानन्दसुखतो नैति पाप्यपि दुर्गतिम् ॥ कृष्णः कृष्णसस्तो मह्यं प्रीयतां कृष्णयावृतः । कृष्णभक्तः सदा देवः सर्वं पायाज्जगत्प्रभुः ॥
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy