________________
PURUNASED FOR GOVERNMENT.
35 No. 460. Atankadarpana, by VAGHASPATI [माधवनिदानटीकाआतंकदर्पणनाम्नी-वाचस्पतिः]. Begins : श्रीमहागणाधिपतये नमः । श्रीगुरवे नमः । अधुनाऽतंकदर्पणो लिख्यते ॥
तुलसीकुसुमं दधत्तमालं बल्लनिगोपवाससक्तम् । किमपि त्रिभुवनैकमलकन्दं परमानन्दमहमहो स्मरामि ॥१॥ श्रीहम्मीरनरेश्वरः समभवद्विरः प्रतापानलज्वालाजालकरालदग्धयवनप्राग्भारशुष्कन्धनः । यस्य प्रौढसभाङ्गणेष्वपि यशः स्वर्लोककल्लोलिनीकल्लोलामलमङ्गनाः सुमनसां गायन्ति रोमाञ्चिताः ॥ २॥ प्रत्यर्थे क्षितिनाथसार्थवनितावैधव्यदीक्षागुरोः शौर्य यस्य रणाङ्गणे सुरगणैः पश्यन् सुराणां पतिः । लब्ध्वा नेत्रसहस्रकं फलमलं स्मृत्वा निजाभ्यर्थितं रामं राबणघातिनं समभवत्तुष्टोविलक्षः पुनः ॥ ३ ॥ तस्याभवद्वैद्यवरः प्रभूतो विश्वासपात्रं विदितश्चरित्रैः । प्रमोदनामा सकलप्रमोदी कलाविलासैकनिधिर्द्विजेन्द्रः ॥४॥ ज्येष्ठोऽभवत्तस्य सुतः प्रशस्तः शास्त्रार्थवेत्ता शिवशक्तिचेताः । रैशर्मनामा प्रथितः कलाभिर्महम्मदक्षोणिपतेः सभायाम् ॥ ५॥ अन्योऽपि तस्यास्ति सुतः कनीयान्वाचस्पतिः सत्वगुणेकसंगतिः । सहोदराः प्रीततमाः समस्तायुर्वैद्यविद्या स्वयमध्यगीयन् ॥ ६॥ भृगुवचनविचारैश्चारुचञ्चच्चरित्रं चरकचतुरचेताः सुश्रुते सुश्रुतो यः । कपिलमिव वयस्ये ब्रह्मविद्यारहस्ये प्रकटितपटबुद्धिर्बुद्धकाणादसिद्धिः ॥ ७ ॥ तेनोज्ज्वला विवृत्तिरपधियां हिताय संबध्यते विबधमाधवसंग्रहस्य ।