________________
PURCHASED FOR GOVERNMENT. 19 तस्यादिमः सकलधर्मधुराधुरीणो धीराह्वयो निजकुलाम्बरपूर्णचन्द्रः । पुत्रोऽस्ति चम्पक इति प्रथितो द्वितीयः
पुत्री तु धर्मिणिरिति प्रथिताभिधाना ॥ १३ ॥ ॥ इतश्च ॥ षट्तर्की परितर्ककर्कशधियः साहित्यविद्यापथे पारीणप्रतिभातिनागमसरिन्नाथप्रथागस्तयः । त्रैलोक्याद्भुतभागधेयकलिताः सौभाग्यभृङ्गीवृतास्तत्तादृक्तपसा जितार्कमहसा देदीप्यमानाः सदा ॥ १४ ॥ उत्सर्गाचरणा विशुद्धचरणा मोहान्धकारारुणाः पूज्या यत्र युगप्रधानतुलनामाबिनते संप्रति । तेषां श्रीयुतदेवसुन्दर इति ख्याताभिधा शालिनां सूरीन्द्रालिशिरःकिरीटसदृशां श्रीसद्गुरूणां मुहुः ।। १५ ॥ श्रीज्ञानं मोहनिद्राहरणदिनमणिः स्वर्मणिः प्रार्थितार्थे निःश्रेणिः सिद्धवेश्मन्यरणिरथ परब्रह्मतेजः प्रकाशे । दानं तस्य प्रशस्याखिलसुखविभवोत्पत्तिहेतुः सदेति व्याख्यामाकर्ण्य कर्णामृतरसमसमानन्दकंदाम्बुधाराम् ॥ १६ ॥ श्रीमत्कथारत्नसमुचयाख्यं ग्रन्थं प्रवीणप्रतिभावगम्यम् । भक्तश्रुतेऽलेखयदेष भावाद्वर्षे हयदधिसोमसंख्ये ॥ १७ ॥
चतुर्भिः कालापकम् ॥ श्रीतत्वोद्यन्निधानः प्रकटनयपथो वीरमार्गानुगामी मामत्यनिषेव्यः श्रितनिखिलजनं प्राणयत् राज्यलक्ष्म्या । श्रीधर्मः सार्वभौमः परविजययुतो वर्द्धते यावदुर्व्या ग्रन्थो वाह्यमानः सकलकविकुलैस्तावदेषास्तु तुष्टयै ॥ १८ ॥
॥ शुभं भवतु ॥