SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 18 EXTRACTS FROM MANUSCRIPTS पार्श्वे यस्य निरीक्ष्य भीत इव तं दुर्भिक्षमुख्यं निजं व्यापारं कलिशत्रुरेष सकलं तत्याज निर्व्याजतः ॥ १ ॥ राणीरिति मृदुवाणी कान्ता जातास्य मेरुमूर्त्तिरिव । सन्नन्दना सुरमणी रमणी याभीष्टकल्पलता ॥ ६ ॥ चतुः संख्यास्तयोः पुत्राः श्रीदा मोदरताः सुताः । सद्दानवासनायुक्ताः पुरुषोत्तममता श्रुताः ॥ ७ ॥ तेष्वाद्यो गुणवान्नियद्दरपुरे प्रोत्तुङ्गमाद्यार्हतो यः प्रासादमचीकरत्स विनयी गोविन्दसंघाधिपः । द्वैतीयकसुतोऽस्ति वीसल इति ख्यातस्तृतीयः पुनर्विज्ञेष्वक्रुरसिंह इत्यथ गुणी तुर्यस्तु हीराभिधः ॥ ८ ॥ श्रीमदेउलवाटकेऽथ निवसत्र श्रीलक्षभूमिपतेमन्यः पुण्यवतां सुवर्णमुकुटः संघाधिपो वीसलः । अस्ति स्वस्तिमयावदातचरितश्चातुर्यगम्भीरतासम्यक्त्वस्थिरतादिबन्धुरगुणश्रेणीमणी रोहणः ॥ ९ ॥ यात्रा जैनविहारकारणगुरूपास्त्यादिपुण्यैः सदा गण्यैर्हतशासनं प्रतिदिनं प्रोद्भासयन्नैकधा । नित्यं सत्रगृहप्रवर्त्तितमहादानैरुदत्रायुधैर्यो दुर्भिक्षविपक्षमक्षतजयोऽजैषीन्मनीषी क्षणात् ॥ १० ॥ शुद्धां शीलकलां कलामिव विधोरीशोत्तमांगस्थितां के संघाधिपबीसलस्य सरलां व्याख्यां तु दक्षा अपि । मूर्त्या यः कमनापि निर्मितमनोरोधोवरोधो निजं मुक्त्वा जन्मत एव नान्यवनितासंसर्गमार्गं गतः ॥ ११ ॥ श्रीधर्मोत्कटभेदपाटसचिव श्रीरामदेवाङ्गजा मेलादेविसमुद्भवाद्भुतलसच्चातुर्यसौन्दर्यभृत् । शौलश्रीकलिता सुधर्मनिरता लज्जागुणालंकृता खीमाईरिति विश्रुतास्ति दयिता तस्य प्रशस्या गुणैः ॥ १२ ॥
SR No.007583
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1899
Total Pages179
LanguageEnglish
ClassificationBook_English & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy